________________
५६
अनुसन्धान-५६
तस्या विलासस्य = क्रीडायाः, उल्लसन्ती भूमिका = स्थानम्, तस्याम्, श्रेष्ठलक्ष्मीकेलिसद्मनि ईदृशे पुरे = नगरे, सारसोपारके = सोपारपत्तने, एषा प्रत्यक्षा, मूर्तिः = आकृतिः, तव बिम्बं, मुदे = हर्षाय, अस्तु = भवतु । त्वदीया = तावकीना, कीदृशी मूतिः ? दृशो:-नयनयोः, इन्दुलेखा = चन्द्रकलोपमा ॥९॥
विभो तावकीन प्रसादादशेषाः, समेषां भवन्तीष्टलक्ष्मीविशेषाः । दुरापं भवेद्वस्तु किं कल्पवृक्षे
जनानां मनोभीष्टदानैकदक्षे ॥१०॥ हे विभो ! = हे स्वामिन् । तावकीनप्रसादात् = त्वदीयमहिम्नः, अशेषाः = समस्ताः, समेषां = सर्वजनानाम्, इष्टलक्ष्मीविशेषाः = वाञ्छितकमलाप्रकाराः, भवन्ति सम्पद्यन्ते ॥ दृष्टान्तमाह-दुरापं = दुर्लभम्, भवेद्वस्तु = वस्तु पदार्थात्मकम्, किं = किमपि, कल्पवृक्षे = सुरपादपे, जनानाम् = प्राणिनाम्, कीदृशे कल्पवृक्षे ? मनोभीष्टदानैकदक्षे = मनोवाञ्छितप्रदानाद्वितीयचतुरे । भावस्तु-कल्पवृक्षे सति किं दुःप्रापम् ? अपितु न किमपि ।
निरुपममहिमश्रीसारसोपारनामप्रवरनगरलक्ष्मीकामिनीकङ्कणाभः । प्रथमजिन ! मयैवं संस्तुतस्त्वं च भक्त्या जिन ! विशदपदाब्जोपासनां देव ! देयाः ॥११॥
इति प्रथम जिन स्तोत्रं सम्पूर्णम् ॥ निरुपमः = उपमारहितो महिमा, तस्य श्रीः = शोभा, तया-सारम् = प्रधानम्, सोपारनाम प्रवरनगरं = सुन्दरपत्तनम्, तस्य लक्ष्मीः = श्रीः ? कान्तिरेव, कामिनी = युवतिः, तस्या:-कङ्कणे = कनकवलये, तयोरिव आभा = शोभा । [गाथार्थः] निरुपम उपमावर्जितप्रभावशोभाभासुरसोपारपुरनारीलक्ष्मीहस्तकङ्कणसमः ।
हे प्रथमजिन = हे प्रथम तीर्थंकर ! मया = जयानन्दसूरिणा, एवं = पूर्वोक्तप्रकारेण, संस्तुत = स्तुतिविषयीकृतः, त्वं = प्रथमजिनः, भक्त्या =