________________ ओगस्ट 2011 57 श्रद्धातिशयेन, हे जिन ! = हे भगवन् ! हे देव ! = हे प्रभो ! विशदपदाब्जोपासनां = निर्मलचरणकमलसेवनाम्, देयाः = त्वं देहि, मम इति शेषः // इति वृत्तार्थः // 11 // इत्थं जयानन्दगणाधिराजविनिर्मिते स्तोत्रवरे जिनस्य नाभेयनाम्नोल्पतराऽत्र वृत्तिश्चक्रे सुभोगाभिधपाठकेन / इति जयानन्दसूरिसंस्तुतश्रीयुगादिजिन स्तोत्रं पवित्रं सम्पूर्णम् /