________________
ऑगस्ट २०११
विदेशंगमी प्राप्य सत्सार्थवाहम्, यथा मोदते चातकोचा( तकश्चाऽ )म्बुवाहम् । तथाहं भवन्तं शिवश्रीविनोदम्
समासाद्य सद्यः प्रपद्ये प्रमोदम् ॥७॥ विदेशंगमी = विदेशे गमनशीलः, सत्सार्थवाहम् = शोभन-सार्थपति, प्राप्य = लब्ध्वा, यथा = येन प्रकारेण, मोदते = हर्षयुक्तो भवति । पुनः चातको = बप्पीहः, अम्बुवाहम् = मेघं प्राप्य, प्राप्य, यथा मोदते = तुष्टो भवति, तथा तेन प्रकारेण, अहं भवन्तं = त्वाम्, शिवश्रीविनोदं = मोक्षलक्ष्मीविलासम्, समासाद्य = सम्प्राप्य, सद्यः = तत्कालम्, प्रमोदं = हर्षम्, प्रपद्ये = प्राप्नोमि ॥७॥
कदा देव ! ते सेवकोऽहं भवेयं, कदा शासनं तावकीनं भजेयं । कदा दर्शने दर्शनात् पावयेयं,
कदा त्वत्पदाब्जं च चित्तं नयेयम् ॥८॥ हे देव ! = हे प्रभो ! ते तव, सेवकः = किङ्करः, कदा = कस्मिन् काले, भवेयं = भवामि, तव दासोऽहं कदा भवामि ! कदा = कस्मिन् काले, शासनम् = आज्ञाम्, तावकीनं = भवदीयं, भजेयं = भजे, तवाज्ञापालकः कदा भवामि भविष्यामि, कदा = कस्मिन् काले, तव दर्शने = तवावलोकने, दर्शनात् = सम्यक्त्वात्, अहं पावयेयं = पावनतरो भवामि । पुनः कदा कस्मिन् काले, त्वत्पदाब्जं = भवत्चरणकमलम्, चित्तं = निजमनसि, नयेयम् = प्रापयामि ॥८॥
महातीर्थशत्रुञ्जयोपत्यकायां, सुसम्पद्विलासोल्लसद्भूमिकायाम् । पुरे सारसोपारके मूर्तिरेखा,
मुदेऽस्तु त्वदीया दृशोरिन्दुलेखा ॥९॥ महातीर्थस्य = सर्वोत्तमतीर्थस्य, शत्रुञ्जयस्य = सिध्धाचलस्य, उपत्यकायां = आसन्नभूमौ, सिध्धाचलनिकटस्थाने, सुसम्पत् = शोभनसम्पदा,