Page #1
--------------------------------------------------------------------------
________________
श्री सहजकीर्ति उपाध्याय रचित श्री पार्श्वनाथ महादंडक स्तुति ॥
___ - प्रद्युम्नसूरि विविध छंदोमां स्तुति-स्तोत्रो रचवानी परंपरा बहु जुनी छे. तेमां प्रचलित वसंततिलका, मंदाक्रान्ता, शिखरिणी, शार्दूला वगेरे छंदोमां तो खूबज स्तुतिस्तोत्रो मळे छे. ज्यारे दंडक छंदमां रचेला स्तुति स्तोत्रो अल्प मळे छे. शोभन मुनिवररचित चतविंशति स्तुतिमां छेल्ली महावीरप्रभुनी स्तुति दंडक छंदमां छे. ___आ दंडक छंदना पण अनेक प्रकार छे. आ रीतना प्रकारो अन्य छंदमां आवता होय तेवू जोवामां नथी आवतुं. तेमां जेम तेनुं स्वरूप गणवृद्धिथी वधे तेम तेनां नाम बदलाय. एक अक्षरथी लइ नवसो नव्वाणुं अक्षर सुधीना दंडक आवे छे. ते बधाना अलग अलग बंधारण प्रमाणे उद्दाम-शंख-संग्राममत्तमातंगलीलाकर-चंडवृष्टिप्रपात वगेरे नाम आपवामां आव्या छे.
प्रस्तुत दंडक श्रीपार्श्वनाथभगवाननी स्तुतिरूप छे. कर्ता श्रीसहजकीर्ति उपाध्याय आने महादंडक कहे छे. ९९९ अक्षरनुं एक चरण आवा चार चरणनो एक श्लोक. आथी मोटो दंडक न होइ शके. तेथी तेनुं महादंडक नाम पण सार्थक छे. एक रीते तो आ मतमातंगलीलाकरना लक्षणमां बंधबेसे छे. तेनुं लक्षण आ प्रमाणे छे :
यत्र रेफान् कविः स्वेच्छया पाठसौकर्यसापेक्षया
योजयत्येष धीरैः स्मृतो मत्तमातङ्गलीलाकरः ।। रचना अत्यंत प्रासादिक छे. विषय तरीके श्रीपार्श्वनाथभगवानना जीवन ने आमां समाव्यो छे. पांच कल्याणकनुं विशद वर्णन, कमठे करेला उपसर्गर्नु वर्णन, कलिकुंड तीर्थनी स्थापनानो प्रसंग तेनुं वर्णन आ बधु खूबज प्रांजल शैलीमां अर्थ वांचतां वांचता ज बोध थतो जाय तेवी सुगम शब्दावलिमां अहीं मळे छे. संस्कृत भाषा परनुं तेमनुं प्रभुत्व नोंधपात्र छे. तेनुं कारण तेओर्नु व्याकरण अने कोष बनेनुं तलस्पर्शी जणाय छे. तेओए सारस्वत व्याकरण उपर वृत्ति रची छे अने एक स्वतंत्र व्याकरणनी रचना पण करी होय तेम लागे छे. नाम सप्तद्वीपिशब्दार्णवव्याकरण एवं मळे छे. अने बीजं नाम ऋजुप्राज्ञव्याकरणप्रक्रिया ए नामनो पण ग्रंथ रच्यो होय तेम जणाय छे. वळी
Page #2
--------------------------------------------------------------------------
________________
82
एक अभिधानचिंतामणीनी जेम छ कांडमां विस्तरेलो नामकोश पण तेमने रचेला ग्रंथोनी यादीमां नों धायो छे. वळी व्याकरणविषयमांज एकादि शतपर्यन्तशब्दसाधनिका नामनी पण रचनानुं नाम मळे छे. आ रीते व्याकरण, कोष अने साहित्य तेमना खूब खेडायेला विषयो जणाय छे अने तेनो आ रचनाने भरपूर लाभ मळ्यो छे. वि.सं. १७८३नी आ रचना छे.
जेसलमेरना श्रीपार्श्वनाथभगवाननी आ स्तुति छे. आ प्रभुजीनी प्रतिष्ठा आचार्य श्रीजिनकुशलसूरिजी महाराजे करी छे.
आ महादंडक स्तुतिना कर्ता उपाध्याय श्रीसहजकीर्तिमहाराजनी गुरुपरंपरा आ प्रमाणे स्तुतिना अंतमां आपी छे : श्रीरत्नसार शि. रत्नहर्ष शि. हेमनन्दन शिष्य उपाध्याय श्री सहजकीर्ति.
तेमना ग्रंथोनी यादीमां एक नाम महावीर स्तुति वृत्ति एवं एक नाम मळे छे. आ महावीर स्तुति पण कोइ विशिष्ट रचना हशे के जेना उपर तेओए वृत्तिनी रचना करी होय.
हस्तलिखित ज्ञान भंडारमां तपास करतां श्रीसहजकीर्ति उपाध्यायनी अन्य रचना मळे तो ते बहार आणवी जोइए.
प्रस्तुत कृतिनी अन्य प्रति मळी नहीं तेथी केटलांक स्थानो शंकित रही गया छे. बहु विचारना अंते आ एकवार तो मुद्रित करी देवुं जोइए तेवुं लाग्यं. अन्यथा आ छे ते पण क्यांक काळनी गर्तामा विलीन थइ जाय. तेथी आ स्वरूपे अहीं आप्युं छे.
आ स्तोत्र पंडित श्रीअमृतभाई मोहनलाल भोजक द्वारा प्राप्त थयुं छे तेनो सानंद उल्लेख करुं छं.
Page #3
--------------------------------------------------------------------------
________________
83
॥ श्री पार्श्वनाथाय नमः ॥
विदितनिखिलभावसद्भूतभूतप्रभूताखिलज्ञानविज्ञानभास्वत्प्रभाकीर्ति
सन्दोहसौभाग्यभाग्योल्लसल्लोककोकस्थिति श्रेणिसन्तोषपोषप्रदं प्रीतिनीतिप्रमाणप्रमाणप्रमेयक्षमालीनपीनध्वनिध्वानसम्मोहविध्वंसदक्षं जिनं पोषमासादिमाया दशम्या दिने प्रा (१००) प्तजन्मानमालोकशोकापनोदाय सम्प्राप्ततारुण्यकं प्राप्तबोधं सुरेभ्यो सुरज्येष्ठलोकान्तिकेभ्यो दिने पोषमासादिमैकादशीसञ्ज्ञके ऽवासदीक्षं स्फुरत्स्वर्गि पातालवासि स्फुटव्यन्तराधीश - सच्चन्द्रसूर्यारसौम्या - ऽमरा चार्यवर्यो - शन: - शौरि - नक्षत्रमालानभस्तारका कोटि ( २००) कोटिक्षितिप्रीतिभूपालसच्चक्रवालानतांह्निद्वयं द्वेषिकृद्वेषसंहार-सञ्चारसंसारपाथोधिसम्मग्नचेतः - प्रवृत्त्यङ्गिनिस्तारकोद्वेगवेगप्रपञ्चक्षयाक्षीणलेश्यं सकोपासुरामर्ष सम्भूतभीतिप्रदाशेषविद्वल्लताक्षो भशो भारटद्धोरसंहारकल्पक्षमाकाशभे (३००) दावकाशच्युतश्यामरुग्नीरधिध्वानगर्जज्जितानेकमर्त्यप्रचण्डप्रतापद्विपाष्टापदध्वानदुष्टान्धकार प्रचारोच्छलनीरकल्लोलमालाम्बुदोद्रेककृसमापूर्णसर्वाङ्गमाज्ञाय सर्वप्रभाराजिबिभ्राजमानप्रमाणर्द्धिपाताललक्ष्मीसदाभोगसंयोगविख्यातनामा (४००)
भिरामप्रभावोऽमितायामविष्कम्भसम्मो ददायिप्रणष्टाहितध्वान्तसंरम्भरम्भावलीचूतसच्चम्पकाशोक वृक्षादिनिः सङ्ख्यवृक्षातिशायीष्टशोभा भराने कवादित्रनादो च्चयानन्दकृ त्पञ्चवर्णात्मकावांसलक्षाधिपत्यं दधद्देवदेवीमनोवाञ्छितार्थं ददत् स्वीयसिंहास (५००) नोत्कम्पतो ज्ञानसम्भारतश्चापि नागाधिपः स्वीयदेवेन्द्रताप्राप्तिहेतुं प्रभुं भूरिसौख्यं क्षमाकारणं चाकलय्य प्रमोदान्निजां पट्टदेवीं समादाय शीघ्रं जलोपद्रवध्वंसनाय स्थितं पुण्यमूर्ति जगत्क्षेमकृन्नामधेयं प्रभुं पार्श्वनाथं समं निर्ममं चिन्मयं मेरुधीरं
ww
Page #4
--------------------------------------------------------------------------
________________
84
धरा(६००)नेकगाम्भीर्य धैर्यायसन्तोषपात्रं पवित्रं गुणश्रेणिभी राजितं त्यक्तसंसारसञ्चाररामारमाकारदेहस्थिति प्रोल्लसद्धर्षसन्दोहमोहः फणानां सहस्रं व्यधान्मस्तकोपर्यलं छत्रसंकाशशोभाधरं वीरविक्षोभसंहारसम्बन्धिकं राजमानं चतुर्दिक्ष्वधोधः स्वकीयां(७००)शयोराश्वसेनेर्भवाम्भोधिनिस्तारकं कारकं सम्पदामास्पदं श्रेयसां साध्वसध्वंसदक्षं नतं नागरैः पद्युगं स्थापयामास भूयोऽथ पार्वाग्रतः सम्भ्रमाधिक्यतो नाटकं देवसूर्याभरीत्याप्सर: श्रेणिभिर्दीयमानाप्रमाणोरुगानं कुमारीकुमारैर्जनानन्ददैर्दन्तसङ्घचैर्यु(८००)तं विश्रुतं सर्वतः सर्वपापप्रणाशप्रधानं निधानं गुणानां हितं सौख्यमोक्षप्रदं देवलोकेशता-चक्रवर्तित्व-शीरित्व-सभ्यार्धचक्रित्व-भूपत्व-सिद्धिक्षमाकारणं दुन्दुभिध्वानरम्यं निधानाम्बुराशि प्रमाणाद्भुतातोद्यजातेः पृथक् सिद्धि-दिग्मानसङ्ख्यायुतैर्हारतुर्यैर्युतं (९००) पूर्णपुण्यौघलभ्यंचकारासुरेशश्रियं पावनां कर्तुकामस्ततः सप्तभिर्वासरै रात्रिभिश्चासुरैर्वर्षणे सर्वतः क्षीणभावं समेतेऽसुरं पापलेश्यं महावैरिणं पार्श्वनाथस्य पद्मावतीशो जगादेति सञ्जातरोषो महापाप:(प-) दुष्टाधमेशाहमस्तोकशोकास्पदं त्वां नये(१०००)।
विहितजिनजलाशिवं कोऽस्ति रे प्राणभृद् यः समागत्य संरक्षति क्ष्मातलेऽद्यापि मूर्योत्तमो वेत्सि किं नो जिनोऽयं चतुःषष्टिदेवेन्द्रपूज्य श्चिदानन्दभ(?)न्दस्वरूपः समाङ्गिब्रजप्रीतिदः सापराधेऽपि दुष्टाशये नैव रोषं विधत्ते जने जातुचिद् नाकिनि क्षुद्रसत्त्वे दयालीनचेताः (१००)सुखं वाञ्छति प्राणिनां भावतोऽथापहायाखिलं वैरभावं चिरारूढगूढं कृतक्लेशमान्द्या समाधिस्थितिश्लोकविध्वंसहेतुं भजागत्य चानन्तसंसारनीराम्बुधिप्रान्तमेहि प्रसिद्धोदयागारसंसारिशृङ्गारकल्पं मरुच्छाखिचिन्तामणिस्तोमसम्प्राप्तिसन्तोषकल्पं गृहाणां ग(२००)णं सर्वसम्पत्तिभावस्य सम्यक्त्वरत्नं प्रयत्नेन वाक्यं हितप्रीतिकृत् तत् समाकर्ण्य चालोक्य तीर्थेशभक्तं महच्छक्तिभक्ति
Page #5
--------------------------------------------------------------------------
________________
85
प्रभाशोभमानं धराधीश्वरं प्राप्तसंवेगभावोऽसुरो मेघमाली भवाब्धौ - पतज्जन्तुजातोद्धृतौ सावधानावनेकांकुशच्छत्रशङ्खाकृतिभ्राजमानौ जिनां (३००) ही प्रणम्यैवमूचे जगन्नाथ पापातपक्लेशसंवेशसङ्घातकद्वेषतोऽहं
वेष्वप्रमाणेष्वसदुःखसन्दोहरूपेषु तिर्यग्नरामर्त्यपापार्तिभृन्नारकेषु स्वयं सम्भ्रमस्त्राणभूतं भवत्सन्निभं क्वापि न प्राप्तवानीश सद्भाग्यतो द्यश्रितानन्दचिद्रूपमासाद्य नाजन्म मुञ्चा(४००)मि सभ्यं भवन्तं कृपापात्रमश्लाघ्यमाचीर्णमस्तोकवैरं च निन्दामि गर्हामि नैवं पुनर्वीतरागोत्तमः क्षीणपापो विधास्यामि नत्वे(त्वै)वमावेद्य च प्राप वेश्म स्वकीयं गृहीत्वा सुबोधि ततो नागराजोऽपि जैनाग्रतो नाटकं देवशक्त्या विधायोरु नत्वा च शिश्राय सद्मश्रियं साङ्ग(५००)न: क्षेमकृत्पार्श्वनाथोऽपि पातालनाथार्चितः प्राप्तशोभोऽभितोऽभिग्रहं पूर्णमासेव्य निर्जित्य चोपद्रवं नीरजं नीरजाभूमिपीठे विहारं विधत्ते स्म लोकोऽथ तत्र स्वभावेन मूर्ति नवीनां तथा चैत्यमत्युच्चमानन्दकन्दं विधाय त्रिकालं समभ्यर्चयामास लोके ततस्तीर्थ (६००)मासीद्धितं सज्जनानामहिच्छत्रसंज्ञं जनेष्टार्थसम्पादकं तीर्थनाथःप्रभुलॊकनिस्तारको नीलवर्णो धरामण्डलं पावनं पादपद्मोच्छलद्रेणुसम्पाततः साधु कुर्वन् कलेः पर्वतस्यान्तिके शान्तिमूर्तिः स्थितः कायमुत्सृज्य नीरागतां संसृतेर्भावयन् भावितात्मा तथाभूतमा(७००)लोक्य तं तीर्थपं तन्निवासीकरी जातजातिस्मृतिः स्वं भवं पूर्वकं ज्ञातवानेवमालोचयामास चाहं जडो वामनो मन्त्रिपुत्रो भवं हास्यमानो जनैरेकदा मर्तुकामो मुधा बोधितः साधुना तापसोऽभूवमस्तोककालं तपस्यां विधायान्तकाले शरीरं महन्मे तपस्याफलादा(८००)यतौ स्यादितीदं निदानं दधन्मानसे मृत्युमासाद्य जातो महाकायवान् कुञ्जरोऽत्र स्थले हारितो दुष्टचित्तेन पापेन नारो भवः पुण्ययोगात् पुनस्तीर्थराजो गुणानां निवासो मयाऽदर्शि नैनं विना प्राणिनां कोऽपि निस्तारकोदुःखसंहारकर्ता जनोऽन्यः क्षमामण्डलेऽयं च विज्ञाय (९००) ते मां समुद्दिस्य(श्य)
Page #6
--------------------------------------------------------------------------
________________
86
निःसंशयं तारणायागतोऽत्राथ पूज्यो मया पूजनीयो यथाशक्ति भक्त्या यथाऽहं सुखी स्यां विमृश्यैवमानीय पानीयमच्छं तटाकात् तथा पङ्कज श्रेणिभिः पूजयामास वामासुतं भावतो ज्ञातवार्तो जनाद्भूपतिस्तत्र चैत्यं चकार प्रभोरर्चयामास लोके ततः (२०००) |
सकलसुखदमिष्टमासेवनीयं जनैस्तीर्थमापद्वरं जातमेतत् कलेरग्रतः कुण्डंसंज्ञं ततः सोऽथ सम्यक्त्वरत्नान्वितो मेस्तुङ्गाभिधो हस्तिराट् पुण्यसार्थेशयुग् देवलोकं महानन्ददाय्यष्टमं प्राप शुद्धाशयस्त्यक्तवल्भः समन्ताद् जिनाधीशनिः सङ्गमूर्तिस्ततोऽन्यत्र भूमौ (१००) तपस्यांव्यधादेवमाचीर्णशुद्धव्रतव्रतनाथोऽखिलः कर्मराशिर्महानन्त्यजन्यः क्षयं सर्वतो नीयमानो गुणस्थानरीत्या प्रधानेन शुक्लेन बिभ्राजमानोऽवलक्षे चतुर्थी दिने चैत्रमासस्य पूर्वाह्नकाले विशालं समग्रं जगज्ज्योतिरुद्योतकं - केवलज्ञानमासेदिवान् ज्ञात (२००) लोकत्रयालोकपर्यायकोऽगुप्तगुप्तप्रमादा प्रमादप्रसिद्धार्थसार्थप्रवेदी क्षणे तत्र देवाऽसुर- व्यन्तर- ज्योतिषां कम्पिताकम्पसिंहासनानां स्वकीयर्द्धि सामान्यदेवीचलत् पत्ति यानान्वितानामभूदागमः कोटिकोटिप्रमाणश्रितानां ततस्ते मिलित्वा जिनं चाभिवन्द्य प्रमो (३००) देन सालत्रयं रत्न - कल्याणरूप्यात्मकं चक्रुरुत्साहसंसक्तचित्ता अथो वीतरागो नमस्कृत्य तीर्थं स्थितः पूर्वदिक्सम्मुखो राजमानोऽधिकं देशनां धर्मरूपां जगज्जन्तु जीवातुकल्पामनल्पार्थजीवादिसंज्ञानमालांविशालार्तिविद्वेषहालाहलध्वंसपीयूषनिस्यन्दतुल्यां (४००) शराग्निप्रमाणेन वाचां गुणेनाक्षयां देव - भूस्पृक् तिरश्चां मनः संशयोच्छेदपट्वीं स्वकीयस्वकीयोरु भाषागतज्ञानभावेन निद्रा बुभुक्षा तृषोत्पत्तिनाशां ददौयोजनाक्रान्तभूमिस्थितप्राणिनां श्रोत्रगामेवमेषोऽस्थिरो दुःखहेतुर्भवो यत्र जीवाः समे प्राप्नुवन्ति ध्रुवं जन्म (५००) मृत्युं जरां क्लेशमश्लोकमामं वियोगं तथा निर्धनत्वं मिथो वैरभावं विमातृत्व मातृत्व- तातत्व- पुत्रत्व
TVS
Page #7
--------------------------------------------------------------------------
________________
87
रामात्वमुख्यानि चिह्नानि भूयः परं नैव धर्म कृताशेषसातं प्रमादेन कुर्वन्ति सम्मूर्च्छिता स्त्रीविलासाद्यसत्कर्मसु स्तोकसौख्येष्वनित्येष्वसत्कर्मबन्धेध्वथो प्राप्य चि (६००)न्तामणिप्रायचुल्लादिदृष्टांतदुःप्राप्यनृत्वं मनुष्याः ! कुरुध्वं प्रमादं विहायाशु धर्मं जनालम्बनं पार्श्वनाथोदितं मानवा एवमाकर्ण्य सञ्जातवैराग्यतः केऽपि दीक्षां ललुः केऽपि सम्यक्त्वरत्नव्रतानि स्वकायं पवित्रं विधाय प्रणम्याप्तनाथं च केऽपि स्वकीयं स्वकीयं गृहं शि(७००) श्रियुः प्रीतिभाजो नरास्तीर्थराजोऽष्टभिः प्रातिहार्यैः सदा शोभमानो विहारं विधत्ते स्म देवैः समं कोटिभिन्यूँनभावेऽपि जाग्रद्यशावेदलोकप्रमाणैः शयैरातिपूर्वेश्चमत्कारमुत्पादयन् सर्वतः सर्वविश्वश्रियं पालयामास देवाधिदेवो महात्मा मुनीन्द्रो गुणानन्त्यभृत् क्षीण(८००)मोहो जितात्मा चिदानन्दरूपः कलावान् निरीहो जनानन्ददायी कलाकेलिकन्दक्षये कोलभूतः स्वधावाक् क्रियावान् जगन्मित्रतासेवधिः सद्विधिर्बान्धवः प्राणिनां भव्यभूतात्मनां शान्तिमूर्तिर्जगत्कीर्ति-लक्ष्मीवरस्तारकः पारगामी भवाम्भोधिमध्यस्य सभ्यार्चितः कर्मसम्मूलनो(९००)द्योगतीक्ष्णाशयो भारतक्षेत्ररत्नं जिनेशो मुनीनां सहस्राण्यथो षोडशप्रीतिभाजा सहस्रं तथा सिद्धिवह्निप्रमाणंनतार्यार्यकानां(णां) नराणां सुराणां तिरश्चां च कोटीश्च संरक्ष्य संसारतो भीतिहेतोः स्वयं ज्ञातनिर्वाणकालो दयालुः क्षमासागर: प्राप्तसर्वार्थसिद्धिः सुखी (३०००)।
शिरसि शिखरिणः श्रिया राजमानस्य सम्मेतनाम्नः समागत्य कृत्वा च संलेखनां मासिकी साधुभिस्त्र्युत्तरत्रिंशता राजमानो वलक्षेऽष्टमीवासरे श्रावणस्यार्धरात्रक्षणे क्षीणकर्मा विशाखास्थिते रोहिणीवल्लभे वल्लभो मोक्षलक्ष्म्या बभूव श्रितो जैनमुद्रामनङ्गो क्षयी सि(१००)द्धकार्योनिरालम्बनः सिद्धमध्यस्थितोऽनन्तचिद्दर्शनोऽनन्तसौख्यश्रितोऽनन्तसारात्मको नक्षरूपारसः
Page #8
--------------------------------------------------------------------------
________________
88
स्पर्शगन्धच्युतः सङ्गवेदोज्झितो देवनाथैर्मि-लित्वाऽथ सर्वैः कृतश्चन्दनैर्देहदाहो जिनस्यास्थिराशिः क्षणादुज्झितःक्षीरनीराम्बुधौ पूर्वरीत्या समादाय दाढाः समां द्वीप(२००)नन्दीश्वरेऽष्टाहिकां जैनभक्त्या च निर्माय देवालयं शिश्रिये भक्तलोकस्ततः स्थापनार्हन्तमानन्द- सन्दोहहेत्वर्थमर्हत्समानं विधायार्च यामासु राजन्मकल्याणरत्नाश्मरूप्यादि- सद्रव्यजातै : पवित्रैर्विचित्रैः स्फुरत्कान्तिभिः शान्तपापं च तं समालोक्य भव्या अनेके नमस्य(३००)न्ति बोधिं लभन्ते श्रियं मोक्षलक्ष्मी सुराज्यं शरीरं निरामं यश:कीर्तिसौख्यं च भव्यानागार्जुन श्रीकुमाराद्यनेकाङ्गिवर्गा इव प्रीतिभाज: पुरे राजधान्यां तथा ग्रामजाते गृहे कोटिसङ्ख्यात्मके देशदेशान्तरे सर्वतो भ्राम्यता पार्श्वबिम्बान्यनेकानि दृष्टानि (४००) पुण्यानुभावात् समाकर्णितानि
प्रसिद्धानि च स्तम्भनादीनि संवत्सरे लोकसिद्ध्यङ्गभूमि(१७८३)प्रमाणे मया भाग्यतो जैनराजाज्ञया जेसलाख्ये प्रधाने च दुर्गे क्षमाधीशसन्दोहगर्वा पहारे महीमण्डलाक्षोभ्यसामर्थ्य रम्ये विपक्षैरगम्ये शरण्ये महद्धर्मशर्मप्रदं मोक्षल(५००)क्ष्म्याः पदं कृत्तसर्वापदंशस्थितिक्षेमकृल्लोकशोकापहारि प्रमोदास्पदं चैत्यमुच्चं प्रभोः पार्श्वनाथस्य दृष्टं सदिष्टं क्षमाकारणं पापसन्तापनिापनेऽलंभयक्लेशनिर्नाशकं यत्र सर्वत्र बिम्बानि रम्याणि पुण्यानुयायीनि सन्त्यस्त-पापानि भूयश्चतुर्दिक्षु देवालयानां (६००) लघूनां द्विपञ्चाशदङ्गिप्रणम्यास्ति यत्रा तैर्बिम्बचकैः सदा शोभमाना पुनर्यत्र नन्दीश्वरद्वीपवाहतागारसङ्ख्याकृतिर्वर्तते भव्यलोकैर्नता मुक्तिमार्गे यथा प्रोच्चमाङ्गल्यमालेव विभ्राजते तोरण श्रेणिराप्ताच्छबिम्बैर्युता माननीया महेभ्याङ्गिभिर्यत्र भाग्योद(७००)योद्रेकरूपं गुणानां गृहं मोक्षलक्ष्म्याः सुपुण्द्रोपमं तोरणं द्वारवर्ति प्रदीपोपमं स्वर्गमार्गप्रदे मन्दिरस्याग्रतः शिल्पिििनर्मिताभिः प्रशस्योत्तमै रम्यपाञ्चालिकाभिर्विचित्राभिरानन्ददाय्यस्ति
Page #9
--------------------------------------------------------------------------
________________ 89 सत्सूरिमुख्याकृति-क्षेत्रपाला-ऽम्बिका शासनाधीश्वरीमूर्तिभी राजितं (800) यत्र पार्श्वस्य पारङ्गतस्याच्छमूर्ति चलत्पुण्यमूर्ति सुरश्रेणिते जःश्रितं नागराजानुभावान्वितां कल्पवृक्षोपमां कामितार्थप्रदे मोक्षनिः श्रेणिभूतां जिनाद्यन्त-कौशल्यसूरीशमुख्यैः प्रतिष्ठां सुनीतां महत्सूरिमन्त्रेण जाग्रत्प्रतापां विलोक्याच्छपात्रं प्रमोदस्य जातं मनः प्री(९००)तिभाग मे सुलब्धो भवो मानुषोऽद्याथ हे नाथ ! विज्ञप्तिरेषा पदि(वि)त्रा महादण्डकेनाश्रिता तावकीना नवीना कृता रत्नसारान्तिषदन हर्षोल्लसद्धेमसन्नन्दनानां प्रसादात् स्वभावादिसत्कीर्तिनाम्ना विनेयेन सभ्यं पदं वाचकं बिभ्रता सज्जनानां प्रमोदाय भूयाः सदा (4000) // 1 // इति श्रीजेसलमेरुदुर्गस्थ श्रीपार्श्वनाथस्य महादण्डकमयी स्तुतिः समाप्तिमगात् // // संवत् 1783 // श्रीसहजकीर्तिउपाध्यायरचितमिदम् /