SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 85 प्रभाशोभमानं धराधीश्वरं प्राप्तसंवेगभावोऽसुरो मेघमाली भवाब्धौ - पतज्जन्तुजातोद्धृतौ सावधानावनेकांकुशच्छत्रशङ्खाकृतिभ्राजमानौ जिनां (३००) ही प्रणम्यैवमूचे जगन्नाथ पापातपक्लेशसंवेशसङ्घातकद्वेषतोऽहं वेष्वप्रमाणेष्वसदुःखसन्दोहरूपेषु तिर्यग्नरामर्त्यपापार्तिभृन्नारकेषु स्वयं सम्भ्रमस्त्राणभूतं भवत्सन्निभं क्वापि न प्राप्तवानीश सद्भाग्यतो द्यश्रितानन्दचिद्रूपमासाद्य नाजन्म मुञ्चा(४००)मि सभ्यं भवन्तं कृपापात्रमश्लाघ्यमाचीर्णमस्तोकवैरं च निन्दामि गर्हामि नैवं पुनर्वीतरागोत्तमः क्षीणपापो विधास्यामि नत्वे(त्वै)वमावेद्य च प्राप वेश्म स्वकीयं गृहीत्वा सुबोधि ततो नागराजोऽपि जैनाग्रतो नाटकं देवशक्त्या विधायोरु नत्वा च शिश्राय सद्मश्रियं साङ्ग(५००)न: क्षेमकृत्पार्श्वनाथोऽपि पातालनाथार्चितः प्राप्तशोभोऽभितोऽभिग्रहं पूर्णमासेव्य निर्जित्य चोपद्रवं नीरजं नीरजाभूमिपीठे विहारं विधत्ते स्म लोकोऽथ तत्र स्वभावेन मूर्ति नवीनां तथा चैत्यमत्युच्चमानन्दकन्दं विधाय त्रिकालं समभ्यर्चयामास लोके ततस्तीर्थ (६००)मासीद्धितं सज्जनानामहिच्छत्रसंज्ञं जनेष्टार्थसम्पादकं तीर्थनाथःप्रभुलॊकनिस्तारको नीलवर्णो धरामण्डलं पावनं पादपद्मोच्छलद्रेणुसम्पाततः साधु कुर्वन् कलेः पर्वतस्यान्तिके शान्तिमूर्तिः स्थितः कायमुत्सृज्य नीरागतां संसृतेर्भावयन् भावितात्मा तथाभूतमा(७००)लोक्य तं तीर्थपं तन्निवासीकरी जातजातिस्मृतिः स्वं भवं पूर्वकं ज्ञातवानेवमालोचयामास चाहं जडो वामनो मन्त्रिपुत्रो भवं हास्यमानो जनैरेकदा मर्तुकामो मुधा बोधितः साधुना तापसोऽभूवमस्तोककालं तपस्यां विधायान्तकाले शरीरं महन्मे तपस्याफलादा(८००)यतौ स्यादितीदं निदानं दधन्मानसे मृत्युमासाद्य जातो महाकायवान् कुञ्जरोऽत्र स्थले हारितो दुष्टचित्तेन पापेन नारो भवः पुण्ययोगात् पुनस्तीर्थराजो गुणानां निवासो मयाऽदर्शि नैनं विना प्राणिनां कोऽपि निस्तारकोदुःखसंहारकर्ता जनोऽन्यः क्षमामण्डलेऽयं च विज्ञाय (९००) ते मां समुद्दिस्य(श्य) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229601
Book TitleParshwanath Mahadandak Stuti
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages9
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size322 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy