SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 86 निःसंशयं तारणायागतोऽत्राथ पूज्यो मया पूजनीयो यथाशक्ति भक्त्या यथाऽहं सुखी स्यां विमृश्यैवमानीय पानीयमच्छं तटाकात् तथा पङ्कज श्रेणिभिः पूजयामास वामासुतं भावतो ज्ञातवार्तो जनाद्भूपतिस्तत्र चैत्यं चकार प्रभोरर्चयामास लोके ततः (२०००) | सकलसुखदमिष्टमासेवनीयं जनैस्तीर्थमापद्वरं जातमेतत् कलेरग्रतः कुण्डंसंज्ञं ततः सोऽथ सम्यक्त्वरत्नान्वितो मेस्तुङ्गाभिधो हस्तिराट् पुण्यसार्थेशयुग् देवलोकं महानन्ददाय्यष्टमं प्राप शुद्धाशयस्त्यक्तवल्भः समन्ताद् जिनाधीशनिः सङ्गमूर्तिस्ततोऽन्यत्र भूमौ (१००) तपस्यांव्यधादेवमाचीर्णशुद्धव्रतव्रतनाथोऽखिलः कर्मराशिर्महानन्त्यजन्यः क्षयं सर्वतो नीयमानो गुणस्थानरीत्या प्रधानेन शुक्लेन बिभ्राजमानोऽवलक्षे चतुर्थी दिने चैत्रमासस्य पूर्वाह्नकाले विशालं समग्रं जगज्ज्योतिरुद्योतकं - केवलज्ञानमासेदिवान् ज्ञात (२००) लोकत्रयालोकपर्यायकोऽगुप्तगुप्तप्रमादा प्रमादप्रसिद्धार्थसार्थप्रवेदी क्षणे तत्र देवाऽसुर- व्यन्तर- ज्योतिषां कम्पिताकम्पसिंहासनानां स्वकीयर्द्धि सामान्यदेवीचलत् पत्ति यानान्वितानामभूदागमः कोटिकोटिप्रमाणश्रितानां ततस्ते मिलित्वा जिनं चाभिवन्द्य प्रमो (३००) देन सालत्रयं रत्न - कल्याणरूप्यात्मकं चक्रुरुत्साहसंसक्तचित्ता अथो वीतरागो नमस्कृत्य तीर्थं स्थितः पूर्वदिक्सम्मुखो राजमानोऽधिकं देशनां धर्मरूपां जगज्जन्तु जीवातुकल्पामनल्पार्थजीवादिसंज्ञानमालांविशालार्तिविद्वेषहालाहलध्वंसपीयूषनिस्यन्दतुल्यां (४००) शराग्निप्रमाणेन वाचां गुणेनाक्षयां देव - भूस्पृक् तिरश्चां मनः संशयोच्छेदपट्वीं स्वकीयस्वकीयोरु भाषागतज्ञानभावेन निद्रा बुभुक्षा तृषोत्पत्तिनाशां ददौयोजनाक्रान्तभूमिस्थितप्राणिनां श्रोत्रगामेवमेषोऽस्थिरो दुःखहेतुर्भवो यत्र जीवाः समे प्राप्नुवन्ति ध्रुवं जन्म (५००) मृत्युं जरां क्लेशमश्लोकमामं वियोगं तथा निर्धनत्वं मिथो वैरभावं विमातृत्व मातृत्व- तातत्व- पुत्रत्व Jain Education International For Private & Personal Use Only TVS www.jainelibrary.org
SR No.229601
Book TitleParshwanath Mahadandak Stuti
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages9
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size322 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy