SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ 87 रामात्वमुख्यानि चिह्नानि भूयः परं नैव धर्म कृताशेषसातं प्रमादेन कुर्वन्ति सम्मूर्च्छिता स्त्रीविलासाद्यसत्कर्मसु स्तोकसौख्येष्वनित्येष्वसत्कर्मबन्धेध्वथो प्राप्य चि (६००)न्तामणिप्रायचुल्लादिदृष्टांतदुःप्राप्यनृत्वं मनुष्याः ! कुरुध्वं प्रमादं विहायाशु धर्मं जनालम्बनं पार्श्वनाथोदितं मानवा एवमाकर्ण्य सञ्जातवैराग्यतः केऽपि दीक्षां ललुः केऽपि सम्यक्त्वरत्नव्रतानि स्वकायं पवित्रं विधाय प्रणम्याप्तनाथं च केऽपि स्वकीयं स्वकीयं गृहं शि(७००) श्रियुः प्रीतिभाजो नरास्तीर्थराजोऽष्टभिः प्रातिहार्यैः सदा शोभमानो विहारं विधत्ते स्म देवैः समं कोटिभिन्यूँनभावेऽपि जाग्रद्यशावेदलोकप्रमाणैः शयैरातिपूर्वेश्चमत्कारमुत्पादयन् सर्वतः सर्वविश्वश्रियं पालयामास देवाधिदेवो महात्मा मुनीन्द्रो गुणानन्त्यभृत् क्षीण(८००)मोहो जितात्मा चिदानन्दरूपः कलावान् निरीहो जनानन्ददायी कलाकेलिकन्दक्षये कोलभूतः स्वधावाक् क्रियावान् जगन्मित्रतासेवधिः सद्विधिर्बान्धवः प्राणिनां भव्यभूतात्मनां शान्तिमूर्तिर्जगत्कीर्ति-लक्ष्मीवरस्तारकः पारगामी भवाम्भोधिमध्यस्य सभ्यार्चितः कर्मसम्मूलनो(९००)द्योगतीक्ष्णाशयो भारतक्षेत्ररत्नं जिनेशो मुनीनां सहस्राण्यथो षोडशप्रीतिभाजा सहस्रं तथा सिद्धिवह्निप्रमाणंनतार्यार्यकानां(णां) नराणां सुराणां तिरश्चां च कोटीश्च संरक्ष्य संसारतो भीतिहेतोः स्वयं ज्ञातनिर्वाणकालो दयालुः क्षमासागर: प्राप्तसर्वार्थसिद्धिः सुखी (३०००)। शिरसि शिखरिणः श्रिया राजमानस्य सम्मेतनाम्नः समागत्य कृत्वा च संलेखनां मासिकी साधुभिस्त्र्युत्तरत्रिंशता राजमानो वलक्षेऽष्टमीवासरे श्रावणस्यार्धरात्रक्षणे क्षीणकर्मा विशाखास्थिते रोहिणीवल्लभे वल्लभो मोक्षलक्ष्म्या बभूव श्रितो जैनमुद्रामनङ्गो क्षयी सि(१००)द्धकार्योनिरालम्बनः सिद्धमध्यस्थितोऽनन्तचिद्दर्शनोऽनन्तसौख्यश्रितोऽनन्तसारात्मको नक्षरूपारसः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229601
Book TitleParshwanath Mahadandak Stuti
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages9
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size322 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy