SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 84 धरा(६००)नेकगाम्भीर्य धैर्यायसन्तोषपात्रं पवित्रं गुणश्रेणिभी राजितं त्यक्तसंसारसञ्चाररामारमाकारदेहस्थिति प्रोल्लसद्धर्षसन्दोहमोहः फणानां सहस्रं व्यधान्मस्तकोपर्यलं छत्रसंकाशशोभाधरं वीरविक्षोभसंहारसम्बन्धिकं राजमानं चतुर्दिक्ष्वधोधः स्वकीयां(७००)शयोराश्वसेनेर्भवाम्भोधिनिस्तारकं कारकं सम्पदामास्पदं श्रेयसां साध्वसध्वंसदक्षं नतं नागरैः पद्युगं स्थापयामास भूयोऽथ पार्वाग्रतः सम्भ्रमाधिक्यतो नाटकं देवसूर्याभरीत्याप्सर: श्रेणिभिर्दीयमानाप्रमाणोरुगानं कुमारीकुमारैर्जनानन्ददैर्दन्तसङ्घचैर्यु(८००)तं विश्रुतं सर्वतः सर्वपापप्रणाशप्रधानं निधानं गुणानां हितं सौख्यमोक्षप्रदं देवलोकेशता-चक्रवर्तित्व-शीरित्व-सभ्यार्धचक्रित्व-भूपत्व-सिद्धिक्षमाकारणं दुन्दुभिध्वानरम्यं निधानाम्बुराशि प्रमाणाद्भुतातोद्यजातेः पृथक् सिद्धि-दिग्मानसङ्ख्यायुतैर्हारतुर्यैर्युतं (९००) पूर्णपुण्यौघलभ्यंचकारासुरेशश्रियं पावनां कर्तुकामस्ततः सप्तभिर्वासरै रात्रिभिश्चासुरैर्वर्षणे सर्वतः क्षीणभावं समेतेऽसुरं पापलेश्यं महावैरिणं पार्श्वनाथस्य पद्मावतीशो जगादेति सञ्जातरोषो महापाप:(प-) दुष्टाधमेशाहमस्तोकशोकास्पदं त्वां नये(१०००)। विहितजिनजलाशिवं कोऽस्ति रे प्राणभृद् यः समागत्य संरक्षति क्ष्मातलेऽद्यापि मूर्योत्तमो वेत्सि किं नो जिनोऽयं चतुःषष्टिदेवेन्द्रपूज्य श्चिदानन्दभ(?)न्दस्वरूपः समाङ्गिब्रजप्रीतिदः सापराधेऽपि दुष्टाशये नैव रोषं विधत्ते जने जातुचिद् नाकिनि क्षुद्रसत्त्वे दयालीनचेताः (१००)सुखं वाञ्छति प्राणिनां भावतोऽथापहायाखिलं वैरभावं चिरारूढगूढं कृतक्लेशमान्द्या समाधिस्थितिश्लोकविध्वंसहेतुं भजागत्य चानन्तसंसारनीराम्बुधिप्रान्तमेहि प्रसिद्धोदयागारसंसारिशृङ्गारकल्पं मरुच्छाखिचिन्तामणिस्तोमसम्प्राप्तिसन्तोषकल्पं गृहाणां ग(२००)णं सर्वसम्पत्तिभावस्य सम्यक्त्वरत्नं प्रयत्नेन वाक्यं हितप्रीतिकृत् तत् समाकर्ण्य चालोक्य तीर्थेशभक्तं महच्छक्तिभक्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229601
Book TitleParshwanath Mahadandak Stuti
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages9
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size322 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy