Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
कर्म प्रकृतिः
॥१०६॥
तिस्रः, प्रमत्ते च तिस्र इति । पञ्चकोदये चतस्रः, तत्र देशविरतस्यैका, प्रमत्तस्य च तिस्रः । चतुष्कोदये एका, सा च प्रमत्तस्येति । सर्वसङ्ख्या चत्वारिंशच्चतुर्विंशतयः, ताथ चतुर्विंशत्या गुण्यन्ते, जातानि नव शतानि षष्ट्यधिकानि । तथा पञ्चादिषु बन्धस्थानेषु क्रमेण द्वादश चत्वारः त्रयो द्वावेकश्चेत्युदयविकल्पा भवन्ति । तथाहि पञ्चविधबन्धकाले द्वयोः प्रकृत्योरुदयः, चतुर्णां संज्वलनाना| मन्यतमस्यैकस्य क्रोधादेस्त्रयाणां वेदानामन्यतमस्य वेदस्य चेति, अत्र त्रिभिश्चतुणां ताडने द्वादश भङ्गाः । चतुर्विधबन्धे त्वेकोदयः, यतः पुरुषवेदबन्धव्यवच्छेदे चतुविधबन्धो भवति, पुरुषवेदस्य च बन्धोदयौ युगपद्वयवच्छिद्येते इति, स चैककोदयश्चतुर्णां संज्वलनानामन्यतमस्य, अत्र च चत्वारो भङ्गाः, यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते, कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोभेनेति चत्वारो भङ्गाः । संज्वलनक्रोधबन्धव्यवच्छेदे त्रिविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनक्रोधवर्जानां त्रयाणामन्यतमस्यात्र त्रयो भङ्गाः । संज्वलनमानबन्धव्यवच्छेदे 'द्विविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनमायालो भयोरन्यतरस्य द्रष्टव्यः, अत्र द्वौ भङ्गौ । संज्वलनमायाबन्धव्यवच्छेदे एकविधो बन्धः, तत्राप्युदय एकविधः, स च संज्वलनलोभोदयरूपोऽवगन्तव्यः, अत्रक एव भङ्गः । इह यद्यपि पञ्चादिषु बन्धस्थानेषु संज्वलनानामुदयमधिकृत्य न विशेषस्तथापि बन्धस्थानापेक्षया भेदोऽस्तीति पृथग् भङ्गा गण्यन्ते । प्रमत्ताप्रमत्तापूर्वकरणानां तु बन्धस्थानापेक्षयाऽपि न भेदः, सर्वेषामपि नवबन्धकत्वात् तत एतेषां भङ्गाः पार्थक्येन न गणिताः । तथाऽबन्धकेऽपि सूक्ष्मसम्पराये एककोदयः । सर्वसङ्ख्ययाऽमी उदयवि | कल्पास्त्रयोविंशतिः, एते प्रागुक्तेषूदयविकल्पेषु क्षिप्ता नव शतानि त्र्यशीत्यधिकानि भवन्ति । इह केचिदाचार्याश्चतुर्विधबन्धकस्याप्याद्यविभागे वेदोदयमिच्छन्ति, तवश्च तन्मतेन चतुर्विधबन्धकेऽपि द्विकोदयभङ्गा द्वादश भवन्ति, ते च बन्धकभेदेन भिन्ना इति
| मोहोदयस्थानभङ्गाः
112011
Loading... Page Navigation 1 ... 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490