Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
* OGODSONOM
तैश्चत्वारो गुणिता जाताश्चतुःषष्टिः, ते पूर्वराशौ क्षिप्यन्ते, जातानि द्वादश शतानि पोडशोत्तराणि । एवं मिश्रादिष्वपि पूर्वोक्तानुसारेगावगन्तव्यम् । अथ पदसङ्ख्या योगगुणिता भाव्यते-तत्र मिथ्यादृष्टेरष्टषष्टिः पदध्रुवकाः, ते त्रयोदशभिर्योगैर्गुण्यन्ते, जातान्यष्टौ | शतानि चतुरशीत्यधिकानि ८८४ । सासादने द्वात्रिंशत् पदध्रुवकाः, तेऽपि त्रयोदशभियोगर्गुण्यन्ते, जातानि पोडशाधिकानि चत्वारि शतानि ४१६ । मिश्रे द्वात्रिंशत् पदध्रुवकाः, ते दशभियोगेर्गुण्यन्ते, जातानि विंशानि त्रीणि शतानि ३२० । अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशभिर्योगेर्गुण्यन्ते, जातानि सप्त शतान्यशीत्यधिकानि ७८० । देशविरते द्विपश्चाशत्पदध्रुवकाः, ते चैकादशभियोगगुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । प्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशभियोगर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । अप्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते चैकादशभियोगैगुण्यन्ते जातानि चत्वारि शतानि चतुरशीत्यधिकानि ४८४ । अपूर्वकरणे विंशतिः पदध्रुवकाः, ते नवभियोगैर्गुण्यन्ते, जातमशीत्यधिकं शतं | १८० । सर्वसङ्ख्यया द्विचत्वारिंशच्छतान्यष्टाधिकानि ४२०८ । एतानि चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्यधिकनवशतोत्तरं लक्षं | १००९९२ । तथा द्विकोदयपदानि चतुर्विंशतिः, एकोदयपदानि च पञ्च, सर्वमीलने एकोनत्रिंशत् , ते नवभिोगेर्गुण्यन्ते, जातमेकषष्टयधिकं शतद्वयं, तच्च पूर्वराशौ क्षिप्यते, ततो जातमेकं लक्षं द्वादश च शतानि त्रिपञ्चाशदधिकानि १०१२५३ । अस्माञ्चल राशेरसंभवीनि पदानि शोध्यन्ते, तद्यथा-सप्तोदय एकः अष्टोदयौ द्वौ नवोदयश्चैक इत्येतेऽनन्तानुबन्ध्युदयरहिताः । तत्र सर्वसङ्घयया " द्वात्रिंशत्पदध्रुवकाः, ते वैक्रियमिश्रादियोगत्रये न संभवन्ति, हेतुः प्रागेवोक्तः, ततो द्वात्रिंशत्रिभिर्गुणिता जाता षण्णवतिः, ते चतुर्विशत्या गुण्यन्ते, जातानि त्रयोविंशतिशतानि चतुरुत्तराणि २३०४ । एतावन्ति पदानि मिथ्यादृष्टेरसंभवीनि । तथा सासादनस्य वैक्रि
ARCRACTORSMOD
Loading... Page Navigation 1 ... 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490