SearchBrowseAboutContactDonate
Page Preview
Page 1373
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१०६॥ तिस्रः, प्रमत्ते च तिस्र इति । पञ्चकोदये चतस्रः, तत्र देशविरतस्यैका, प्रमत्तस्य च तिस्रः । चतुष्कोदये एका, सा च प्रमत्तस्येति । सर्वसङ्ख्या चत्वारिंशच्चतुर्विंशतयः, ताथ चतुर्विंशत्या गुण्यन्ते, जातानि नव शतानि षष्ट्यधिकानि । तथा पञ्चादिषु बन्धस्थानेषु क्रमेण द्वादश चत्वारः त्रयो द्वावेकश्चेत्युदयविकल्पा भवन्ति । तथाहि पञ्चविधबन्धकाले द्वयोः प्रकृत्योरुदयः, चतुर्णां संज्वलनाना| मन्यतमस्यैकस्य क्रोधादेस्त्रयाणां वेदानामन्यतमस्य वेदस्य चेति, अत्र त्रिभिश्चतुणां ताडने द्वादश भङ्गाः । चतुर्विधबन्धे त्वेकोदयः, यतः पुरुषवेदबन्धव्यवच्छेदे चतुविधबन्धो भवति, पुरुषवेदस्य च बन्धोदयौ युगपद्वयवच्छिद्येते इति, स चैककोदयश्चतुर्णां संज्वलनानामन्यतमस्य, अत्र च चत्वारो भङ्गाः, यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते, कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोभेनेति चत्वारो भङ्गाः । संज्वलनक्रोधबन्धव्यवच्छेदे त्रिविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनक्रोधवर्जानां त्रयाणामन्यतमस्यात्र त्रयो भङ्गाः । संज्वलनमानबन्धव्यवच्छेदे 'द्विविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनमायालो भयोरन्यतरस्य द्रष्टव्यः, अत्र द्वौ भङ्गौ । संज्वलनमायाबन्धव्यवच्छेदे एकविधो बन्धः, तत्राप्युदय एकविधः, स च संज्वलनलोभोदयरूपोऽवगन्तव्यः, अत्रक एव भङ्गः । इह यद्यपि पञ्चादिषु बन्धस्थानेषु संज्वलनानामुदयमधिकृत्य न विशेषस्तथापि बन्धस्थानापेक्षया भेदोऽस्तीति पृथग् भङ्गा गण्यन्ते । प्रमत्ताप्रमत्तापूर्वकरणानां तु बन्धस्थानापेक्षयाऽपि न भेदः, सर्वेषामपि नवबन्धकत्वात् तत एतेषां भङ्गाः पार्थक्येन न गणिताः । तथाऽबन्धकेऽपि सूक्ष्मसम्पराये एककोदयः । सर्वसङ्ख्ययाऽमी उदयवि | कल्पास्त्रयोविंशतिः, एते प्रागुक्तेषूदयविकल्पेषु क्षिप्ता नव शतानि त्र्यशीत्यधिकानि भवन्ति । इह केचिदाचार्याश्चतुर्विधबन्धकस्याप्याद्यविभागे वेदोदयमिच्छन्ति, तवश्च तन्मतेन चतुर्विधबन्धकेऽपि द्विकोदयभङ्गा द्वादश भवन्ति, ते च बन्धकभेदेन भिन्ना इति | मोहोदयस्थानभङ्गाः 112011
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy