________________
ITI पृथग्गण्यन्ते, तत्मक्षेपादुदयविकल्पानां नव शतानि पश्चनवत्यधिकानि भवन्ति । यदि तु बन्धकभेदन भङ्गानां भेदो न विवक्ष्यते ।
| तदा पञ्चविधवन्धे चतुर्विधबन्धे च ये द्विकोदयभङ्गास्ते एकरूपा एवेति द्वादशैव । ये चैककोदयभङ्गास्ते चत्वार एवेति षोडशैव, | एतेषां प्रागुक्तोदयभराशौ षष्टयधिकनवशतप्रमाणे प्रक्षेपे षट्सप्तत्यधिकानि नवशतान्युदयविकल्पानां भवन्ति । अथ मोहनीयोदया एते गुणस्थानेषु चिन्त्यन्ते-तत्र मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामष्टावष्टौ चतुर्विशतयो भवन्ति, सासादन मिश्रापूर्वकरणेषु
चतस्रश्चतस्रः, भावितचरा एता इति न भूयो, भाव्यन्ते, सर्वसङ्ख्ययाऽमूर्द्विपश्चाशत् , तस्याश्चतुर्विशत्या गुणने जातानि द्वादश शतान्यघाटचत्वारिंशदधिकानि । अन्ये चानिवृत्तिबादरसम्पराये पश्चविधबन्धादौ षोडश सूक्ष्मसम्पराये चेक इति सप्तदश भङ्गा अधिकाः |
क्षिप्यन्ते । ततः सर्वेष्वपि गुणस्थानेषु सर्वसङ्खथया मोहनीयस्योदयाः पञ्चषष्टयधिकानि द्वादश शतानि । एत एव च भङ्गा उदीरणा-T) यामपि द्रष्टव्याः, उदयोदीरणयोः सहभावित्वात् । यद्यपि वेदत्रयसंज्वलनानां पर्यन्तावलिकायामुदीरणा न भवति, किं तु केवल | 31 एवोदयः, तथापि शेषकालमुदीरणा लभ्यत इति भङ्गसङ्ख्या न व्याहन्यते । एते चैकादयो दशान्ता उदयास्तदन्तर्गता भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तमौहृत्तिकाः, तथाहि-चतुरुदयादिषु दशोदयपर्यन्तेषवश्यमन्यतमो वेदोऽन्यतरच युगलं विद्यते. | वेदयुगलयोश्च मध्येऽवश्यमन्यतरन्मुहूर्त्तादारतः परावर्त्तते । तदुक्तं पञ्चसंग्रहमूलटीकायां-"युगलेन वेदेन वाऽवश्यं मुहर्तादारतः परा| वर्तितव्यमिति” । तत एते उत्कर्षत आन्तमौहर्तिकाः, द्विकोदयैककोदयानां चान्तमौहूर्तिकत्वं सुप्रसिद्धमेव । एकसामयिकता त्वेवं. | यदा विवक्षिते उदय भङ्गे वा समयमेकं वत्तित्वा गुणस्थानान्तरे गच्छति तदाऽवश्यं बन्धस्थानभेदाद्गुणस्थानभेदात्स्वरूपतो वा भिसमुदयान्तरं भङ्गान्तरं वा यातीति सर्वेऽप्युदया भङ्गाश्च जघन्यत एकसामयिकाः।