Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 5
________________ २०३ द्वितीयः प्रकाशः। ब्रह्मदत्तौ चक्रवर्तिनौ सप्तमं नरकं गतौ। हिंसाया नरकगमनहेतुत्वं न रौद्रध्यानमन्तरेण भवति । अन्यथा सिंहवधकतपस्विनो. ऽपि नरकः स्यादित्युक्तं रौद्रध्यानपरायणौ हिंसानुबन्धिध्यानयुक्तावित्वर्थः । यथा तौ नरकं गतौ तथा कथानकहारण दर्श्यते । तथाहि वसन्तपुरनामायां पुर्यामुच्छन्द्रवंशकः । अासीचुत इवाकाशादग्निको नाम दारकः ॥ १ ॥ सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । साडीनः परिभ्राम्यवगमत्तापसाश्रमम् ॥ २ ॥ तमग्निं तनयत्वेनाग्रहीत्कुलपतिनमः। ... जमदग्निरिति स्वातिं स लोकेषु ततोऽगमत् ॥ ३ ॥ तप्यमानस्तपस्तीक्ष्णं प्रत्यक्ष इव पावकः । तेजसा दुःसहेनासौ पप्रथे पृथिवीतले ॥ ४ ॥ अत्रान्तरे महाबाहो नाना वैखानर: सुरः । धन्वन्तरिश्च तापसभक्तो व्यवदतामिति ॥ ५॥ एक आहाहतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् ॥ ६ ॥ आर्हतेषु जघन्यो यः प्रविष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते ॥ ७ ॥ तदानीं मिथिलापुयां नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीपतिः ॥ ८ ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 194