Book Title: Yogshastra Part 02
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 10
________________ २०८ योगशास्त्रे श्रन्येद्युः पतिमापृच्छ्य रेणुकोत्कण्ठिता स्वसुः । जगाम हस्तिनपुरे प्रेम्णो दूरे न किञ्चन ॥ ५३ ॥ श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्योऽरमयत्कामः कामं निरङ्कुशः ॥ ५४ ॥ ऋषिपत्नया तथा राजाहल्ययेव पुरन्दरः । अन्वभूश्च यथाकामं सम्भोगसुखसम्पदम् ॥ ५५ ॥ अनन्तवीर्यात्तनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः ॥ ५६ ॥ तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वोचते ॥ ५७ ॥ तां पुत्रसहितां वल्ली मकालफलितामिव । सञ्जातकोपः परशरामः परशुनाऽच्छिनत् ॥ ५८ ॥ तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः । कोपमुद्दीपयामास कृशानुमिव मारुतः ॥ ५८ ॥ ततच्चावार्यदोर्वीर्योऽनन्तवीर्यो महीपतिः । जमदग्न्याश्रमं गत्वाभावोन्मत्त इव द्विपः ॥ ६० ॥ तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरोव न्यवर्त्तत ॥ ६१ ॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत्साक्षादिवान्तकः ॥ ६२ ॥ सुभटग्रामसंग्रामकौतुको जमदग्निजः । पर्शुना खण्डशश्चक्रे दारुवद्दारुणेन तम् ॥ ६३ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 194