Book Title: Yogadrstisamuccaya and Yogavinshika
Author(s): K K Dixit
Publisher: L D Indology Ahmedabad

Previous | Next

Page 130
________________ 122 YOGAVIMŠIKĀ इतरथा तु कायवासितप्रायमथवा महामृषावादः । ततोऽनुरूपाणामेव कर्त्तव्य एतद्विन्यासः ॥१२॥ ये देशविरतियुक्ता यस्मादिह व्युत्सुनामि कार्यमिति । श्रूयते विरताविदं तत् सम्यक् चिन्तयितव्यमेतत् ॥ १३ ॥ तीर्थस्योच्छेदाद्यपि नालम्वनमत्र यत् स एवमेव । सूत्रक्रियाया नाश एषोऽसमासविधानात् ॥ १४ ॥ स एष वक्र एव न च स्वयंमृतमा रितयोरविशेषः । एतदपि भावितव्यमिहतीर्थो च्छेद भीरुभिः ॥ १५ ॥ मुक्त्वा लोकसंज्ञां वोढ्वा च साधुसमय सद्भावम् । सम्यक् प्रवर्त्तितव्यं वुधेनातिनिपुणवुद्धचा ॥१६॥ कृतमत्र प्रसङ्गेन स्थानादिषु यत्नसंगतानां तु । हितमेतद् विज्ञेयं सदनुष्ठानत्वेन तथा ॥ १७॥ एतच्च प्रीतिभक्त्यागमानुगं तथाऽसंगतायुक्तम् । ज्ञेयं चतुर्विधं खल्वेष चरमो भवति योगः ॥ १८ ॥ आलम्बनमप्येतद्रूप्यरूपी चात्र परम इति । तद्गुणपरिणतिरूपः सूक्ष्मोsनालम्बनो नाम ॥ १९ ॥ एतस्मिन् मोहसागरतरणं श्रेणी च केवलमेव । ततोऽयोगयोगः क्रमेण परमं च निर्वाणम् ॥२०॥ *****

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139