Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 9
________________ सम्पादकीयम् श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 7 // // सम्पादकीयम्॥ परमपरमेष्ठिनं श्री वीरस्वामिनं श्रीवीरस्वामिनःशासनरक्षक, प्रभावकं व्याख्यानवाचस्पतिं परमगुरुवर्य श्रीमद्विजयरामचन्द्रसूरीश्वरं / गुरुवरञ्च समतानिधिं परमसमाधिसाधकं मुनिप्रवरश्रीदर्शनभूषणविजयं नमस्कृत्यास्य ग्रन्थस्य सम्पादकीयं कथयामि। व्याख्याप्रज्ञप्तिरितीदंपञ्चमाङ्गं पूज्यत्वेन भगवती' इति विशेषेण प्रचलितमस्ति / अस्य शास्त्रस्य मनोरञ्जकतया घनोदारशब्दादिभिश्च समुन्नतजयकुंजरेण तदंगोपाङ्गालङ्कारादिभिश्च सहोपमा कृता। रिपुबलदलनाय हस्तिराज्ञो नायकरूपश्रीमहावीरमहाराजादेशादिव गुरुजनवचनाद्वृत्तिः कृतेति वृत्तिकारेण साम्यं दर्शितम्। तस्य मनोरञ्जकतया स्कंदकादिचरितं श्रुत्वा प्रतीयते / यथैकवारं प्रभुः कृतङ्गलानगर्यां समवसृतः। समीपे श्रावस्ती नगर्यभवत्। स्कन्दकतापसस्तत्र परिवसति / पिङ्गलकश्रावककृतेन प्रश्नेनोत्पन्नसंशयः प्रभुप्रष्टुंप्रधारितवान् / प्रभु श्रीगौतमस्वामिनं कथितवान् यत्त्वमद्य पूर्वपरिचितं द्रक्ष्यसि / श्रीगौतमस्वामी पृच्छति तदा प्रभुरन्तरापथिवर्तमानमागच्छन्तं तं कथयति / प्रभुंवंदित्वा नमस्थित्वा श्रीगौतमस्वामी पृच्छति यत् सोऽनगारतां प्रतिपत्स्यति? हन्तेति प्रभुरुत्तरयति / श्रीगौतमस्वामी आगच्छन्तं तमादरं करोति / स प्रभुंपृच्छति, छिन्नसंशयः प्रव्रजति, गुणसंवत्सरं तपंतपस्यित्वा धमनीसंततो जातः। प्रभुणाऽभ्यनुज्ञातः पादोपगमनमनशनं प्राप्तः कालगतः। कुत्र गत इति पृष्टः प्रभुरच्युतकल्पे उपपातः सेत्स्यतीति कथयति / इत्यादिवदनेकवार्ता आश्चर्यकारिका वर्तन्ते। इदं सम्पादनमागमोदयसमितिद्वारा पूर्वप्रकाशित प्रत्यानुसारेण कृतमस्ति / अन्य पाठान्तरा टिप्पण्यस्तथा प्रत्येकोद्देशे सूत्रेषु प्रश्नाङ्का इत्यादिपं० बेचरदास सम्पादित पुस्तकानुसारेण कृता वर्तन्ते। सूत्रेषु प्रश्नङ्कानुसारेण वृतौ उत्तराङ्का अपि दर्शिता वर्तन्ते। मुनिर्दिव्यकीर्तिविजयो गणिः। जयप्रेमसोसा० जैनोप्राश्रयः ज्येष्ठ शुक्ला द्वितीया विक्रम सं० 2064 वीर सं० 2534 ता.०५-०६-२००८ // 7 //

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 578