Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 295
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पा० ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir १३६ दधाते र्यट् च ॥ १८ ॥ धान्यम् ॥ ४८ ॥ जीर्यतेः किन् रश्च वः ॥ ४९ ॥ जित्रिः ॥ ४९ ॥ मव्यतेर्यलोपो मवापतुट्चालः ॥५०॥ ममापतालः ॥५०॥ ऋजेः कीकच् ॥ ५१ ॥ ऋजीकः ॥ ५१ ॥ तनोतेर्डङः सन्वञ्च ॥ ५२ ॥ तितः ॥ ५२ ॥ अर्भकपृथुकपाका वयसि ॥ ५३ ॥ अवद्यावमाधमार्वरेफाः कुत्सिते ॥ ५४ ॥ अवद्यम् ॥ ५४ ॥ ( ४८ ) दधाति पुष्णाति लोकानिति धान्यम् । व्रीहिर्वा । धाने पोषणे साधु धान्यमित्यपि ॥ ( ४६ ) यो जीर्यति येन वा स जित्रिः । काल: पक्षी वा । हलिचेति बाहुलकाद्दीर्घाभावः ॥ (५०) मव्यति बध्नातीति ममापतालः । बन्धनहेतुर्विषयो वा ॥ (५१) अर्जति गच्छतीति, ऋजीकः । सूर्यो धूमो वा ! (५२) तनोति विस्तृणोति येन तत् तितङः । चालनी पेषणशोधकपात्रम् ॥ ( ३३ ) ऋध्यति वर्धतेऽसावर्भकः । ऋधुधातोर्बुन धस्य भः । प्रथते बर्धते स पृथुकः । कुकन् प्रत्ययः सम्प्रसारणं च । पित्रतीति पाकः । कन् प्रत्ययः । अर्भकपृथुकपाका बालकपर्यायाः ॥ For Private And Personal Use Only ( ५४ ) वदितुमयोग्यमवद्यम् । नञपूर्वाद्वदधातोर्यत् । श्रवतीत्यवमम् । अमः प्रत्ययः । तचैव वस्य धः । अधमम् । ऋच्छति गच्छतीत्यर्वा । वन् । अश्वो वा । रिफति निन्दतीति रेफः । कुत्सितपर्याया इमे ॥

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326