________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पा० ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१३६
दधाते र्यट् च ॥ १८ ॥ धान्यम् ॥ ४८ ॥
जीर्यतेः किन् रश्च वः ॥ ४९ ॥ जित्रिः ॥ ४९ ॥ मव्यतेर्यलोपो मवापतुट्चालः ॥५०॥ ममापतालः ॥५०॥ ऋजेः कीकच् ॥ ५१ ॥ ऋजीकः ॥ ५१ ॥ तनोतेर्डङः सन्वञ्च ॥ ५२ ॥ तितः ॥ ५२ ॥
अर्भकपृथुकपाका वयसि ॥ ५३ ॥
अवद्यावमाधमार्वरेफाः कुत्सिते ॥ ५४ ॥ अवद्यम् ॥ ५४ ॥
( ४८ ) दधाति पुष्णाति लोकानिति धान्यम् । व्रीहिर्वा । धाने पोषणे साधु धान्यमित्यपि ॥
( ४६ ) यो जीर्यति येन वा स जित्रिः । काल: पक्षी वा । हलिचेति बाहुलकाद्दीर्घाभावः ॥
(५०) मव्यति बध्नातीति ममापतालः । बन्धनहेतुर्विषयो वा ॥ (५१) अर्जति गच्छतीति, ऋजीकः । सूर्यो धूमो वा !
(५२) तनोति विस्तृणोति येन तत् तितङः । चालनी पेषणशोधकपात्रम् ॥ ( ३३ ) ऋध्यति वर्धतेऽसावर्भकः । ऋधुधातोर्बुन धस्य भः । प्रथते बर्धते स पृथुकः । कुकन् प्रत्ययः सम्प्रसारणं च । पित्रतीति पाकः । कन् प्रत्ययः । अर्भकपृथुकपाका बालकपर्यायाः ॥
For Private And Personal Use Only
( ५४ ) वदितुमयोग्यमवद्यम् । नञपूर्वाद्वदधातोर्यत् । श्रवतीत्यवमम् । अमः प्रत्ययः । तचैव वस्य धः । अधमम् । ऋच्छति गच्छतीत्यर्वा । वन् । अश्वो वा । रिफति निन्दतीति रेफः । कुत्सितपर्याया इमे ॥