________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
उणादिकोषः ॥
-
लीरीडोईवः पुट् च तरौ श्लेषणकुत्सनयोः ॥ ५५ ॥ लिप्तम् । रिप्रम् ॥ ५५॥
क्लिशेरीचोपधायाः कन् लोपश्चलो नाम् च ॥ ५६ ॥ कीनाशः ॥ ५६ ॥
प्रश्नोतराशुकर्मणि वरट् च ॥ ५७ ॥ ईश्वरः ॥ ५७ ॥ चतेरुरन् ॥ ५८ ॥ चत्वारः ॥ ५८॥ प्रात्ततेररन् ॥ ५९ ॥ प्रातः ॥ ५९ ॥ अमेस्तुट् च ॥६०॥ अन्तः ॥ ६०॥ दहे!हलोपो दश्च नः ॥६१ ॥ नगः ॥६१॥
( ५५ ) लीयते श्लिष्यत इति लिप्तम् । लिष्टम् । रीयते तत, रिप्रम् । कुत्सितम् । तरौ प्रत्ययौ पुडागमः ॥
(५६) निश्नातोति कीनाशः । कृषीवला न्यायाधीशी वा। धातारुपधाया ईत्वं लकारलेापः कन् प्रत्ययो नामागमश्चान्त्यादचः परः ॥
(५०) अश्नुते, आशु शीघ्र करोति जगद्रचयति स, ईश्वरः । स्वामी वा । टित्वादोश्वरी । वरच् प्रत्यये ईश्वरा ॥
( ५८ ) चतते याचतेऽसौ चतुः। संख्यावाची वा । चत्वारः । चतनः ।
( ५६ ) प्रकृष्टमति गच्छतीति प्रातः । प्रभातकालो वा । स्वरादित्वादव्ययम् ॥
(६० ) अमति गच्छतोति यति, अन्तः । मध्यं वा । पूर्ववदव्ययम् ॥
(६१ ) दहति दह्यते वा स नगः। पर्वतो वृक्षो वा । बाहुलकानकारस्य नाकारो नागः । सर्पभेदो वा ॥
For Private And Personal Use Only