Book Title: Vastu Ratna Kosh
Author(s): Priyabala Shah
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text
________________
, सविवरण-वस्तुरतकोशः। जयमंगला on सूत्र १५ अ. ३ अधिकरण १.
शास्त्रान्तरे चतुःषष्टिर्मूलकला उक्ताः । तत्र कर्माश्रया चतुर्विंशतिः। तद्यथा-गीतं, नृत्य, वाद्यं, कौशललिपिज्ञानं, वचनं, चोदारं, चित्रविधिः, पुस्तकर्म, पत्रच्छेद्यम्, माल्यविधिः, गन्धयुक्त्यास्वाद्यविधानं, रत्नपरीक्षा, सीवनं, रगपरिज्ञानम् , उपकरणक्रिया, मानविधिः, आजीवज्ञानम् , तिर्यग्योनिचिकित्सितम्, मायाकृतपाषण्डसमयज्ञानं, क्रीडाकौशलं, लोकशानं, वैचक्षण्य, संवाहनं, शरीरसंस्कारः विशेषकौशलं चेति ।
द्यूताश्रया विंशतिः । तत्र निर्जीवाः पञ्चदश । तद्यथा- .
आयुःप्राप्ति, अक्षविधानं, रूपसंख्या, क्रियामार्गणम् , बीजग्रहणम्, नयज्ञानं, करणादानं चित्राचित्रविधिः, गूढराशिः, तुल्याभिहारः, क्षिप्रग्रहणम् , अनुप्राप्तिलेखस्मृतिः, अग्निक्रमः, छलव्यामोहनम् , ग्रहदानं चेति ।
सजीवाः पञ्च । तद्यथाउपस्थानविधिः, युद्धं, रुतं, गतं, नृत्तं चेति । शयनोपचारिकाः षोडश । तद्यथा
पुरुषस्य भावग्रहणं स्वरागप्रकाशनम् , प्रत्यङ्गदानं, नखदन्तयोर्विचारो, नीवीप्रेसनं, गुह्यस्य संस्पर्शनानुलोम्यम्, परमार्थकौशलं, हर्षणं, समानार्थता कृतार्थता, असंप्रोत्साहनम् , मृदुक्रोधप्रवर्तनं, सम्यक् क्रोधनिवर्तन, क्रुद्धप्रसादनं, सुप्तपरित्यागः, चरमस्वापविधिः, गुह्यगृहनमिति।
चतन उत्तरकला:- साश्रुपात रमणाय शापदानम्, स्वशपथक्रिया, प्रस्थितानुगमनम्, पुनः पुनर्निरीक्षणं च । इति चतुःषष्टिर्मूलकलाः ।
जयमंगला टीका कामसूत्रे १ साधारणेऽधिकरणे ३ अध्याये, विद्यासमुद्देशप्रकरणम् । पृ. ३१ (C.S.S)
भावाः। - रतिः। हासः। शोकाक्रोधः। उत्साहः। भयम् । जुगुप्सा । विस्मयः । निर्वेदः ग्लानिः। शङ्का । असूया । मदः । श्रमः। आलस्यम् । दैन्यम् । चिन्ता । मोहः । स्मृतिः । धृतिः। ब्रीडा । चपलता । हर्षः । आवेगः । जडता । गर्वः। विषादः । औत्सुक्यम् । निद्रा । अपस्मारः। सुप्तम् । विवोधः । अमर्षः । अवहित्थम् । उग्रता । मतिः । व्याधिः । उन्मादः । मरणम् । त्रासः । वितर्कः। स्वेदः । स्तम्भः। कम्पः । अनम् । वैवण्यम् । रोमाञ्चः । स्वरसादः ।
(ना. शा. अ.७ काशी. सं सिरीझ) रति । हास । शोक । क्रोध । विस्मय । उत्साह । भय । जुगुप्सा । निर्वेद । ग्लानि । शङ्का । असूया । मद । श्रम । आलस्य । दैन्य । चिन्ता । मोह । स्मृति । धृति । क्रीडा ।

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163