Book Title: Upnishadam Samucchay
Author(s): Hari Narayan Apte
Publisher: Anand Ashram Mudranalay

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथर्वशिखोपनिषत् | देवत्या चतुर्थी विद्युन्मती सर्ववर्णा पुरुषदेवत्या । स एष ह्यकारचतुष्पादश्चतुः शिराश्चतुर्थ्यर्धमात्रा स्थूलहस्वदीर्घष्ठतः । ओम् ओम् ओम् इति त्रिरुक्तश्चतुर्थः शान्तात्मा लुतप्रयोगे नमामि - त्यात्मज्योतिः सकृदावेर्तव्य ओं स एष सर्वान्प्राणान्सकृदुच्चा 1 शिव एव च। पञ्चधा पञ्चदेवत्यः प्रणवः" इति । कल्पभेदेन वा ब्रह्मादीनामुत्पत्तिक्रम - भेदः । अत एव संध्यायां ब्रह्मरुद्रविष्णव उपास्यन्ते । कैश्चिदन्यैस्तु ब्रह्मविष्णुरुद्राः प्रातर्मध्याह्नसायंकालेषूपास्यन्ते । कौथुमैस्तु रुद्रो मध्याह्न उपास्यः “ब्रह्मवादिनो वदन्ति यद्वस्तूनां प्रातः सवनं रुद्राणां माध्यंदिनं सवनमादित्यानां च विश्वेषां देवानां तृतीयसवनम्" इत्याम्नानाद्विष्णुरादित्यान्तर्भूतः । चत्वारः पादा अकारोकारमकारार्धमात्रा विश्वतैजसप्राज्ञतुरीयलक्षणा यस्य स चतुष्पादः । चत्वारि शिरांस्युत्तमाङ्गानि मुख्यस्थानीयान्यनयो यस्य स चतुः शिराः । अकारादीनां पूर्वपूर्वस्योत्तरोत्तरावगतिहेतुत्वात्पद्यतेऽनेनेति व्युत्पत्त्या पादत्वम् । तुरीयस्य तु पद्यते गम्यते य इति व्युत्पत्त्या पादत्वम् । यद्वाऽकारादीनां पादत्वं प्राथम्यात्सर्वधर्माश्रयत्वाच्च सर्वभारसहपादत्वम् । अग्नीनां मुखत्वं 'मुखादग्निरजायत' इति श्रुतेरग्नेः सर्वदेवमुखत्वादन्त्य निर्दिष्टत्वाच्च द्रष्टव्यम् | स्थूलरूपं त्रिधा विभक्तुं सूक्ष्मं पृथक्करोति । चतुर्थीति । चतुर्थ्यर्धमात्रा नादसंज्ञा लुप्तमकारः । स्थूलविभागमाह । स्थूलेति । यः स्थूलो वर्णकूटरूपः प्रणवः स ह्रस्वदीर्घप्लुतः । उद्देश्यविधेययोरपि विशेषणविशेष्यत्वमात्रविवक्षया समासः । ह्रस्वादीनां स्वरूपमभिनीय दर्शयति । ओमोमोमिति । प्रथम एकमात्र द्वितीयो द्विमात्रस्तृतीयस्त्रिमात्र इत्यर्थः । नन्वेवं ह्रस्वो नास्तीति कथं ह्रस्व ओंकारः । नैष दोषः । पार्षदश्रुतिरियं तत्र भवतां यथा राणायनीयानां "सुजाते ए अश्वसूनृते अध्वर्ये ते भद्विभिः सुतम्" इति व्याकरणसिद्धे प्रयोगे ह्रस्वो नास्तीति तस्यार्थः । इति त्रिरुक्त इत्यभिनीतस्योपसंहारः । चतुर्थः पादः क्व वर्ततेऽत आह । शान्तात्मा द्रुतप्रयोग इति । वर्तत इति शेषः । तत्रैवाभिव्यक्तत्वात् । न सममनुपमं रूपमिति हेतोरात्मज्योतिस्तत् । विरम्यमाणघण्टानादाद्युपमाऽपि न भवति । ततोऽप्यतिसूक्ष्मत्वात् । सकृदावर्तव्यः सकृदावर्तयितव्यो ऽनाहतशब्द इत्यर्थः । यथा सकृद्विभातः । तदपि कुतो भवतीति चेच्छ्रयतां निर्विशेषत्वात्पूर्वापरविभाने भेदकाभावात् । तथा निर्विशेषत्वात्पूर्वापरावृत्तौ भेदैक्याभावात्सकृदावर्तव्यः शब्दब्रह्मसंज्ञः । स एष इति वर्णितप्रणवस्योपसंहारः । ओंकारशब्दस्य प्रवृत्तिनिमित्तमाह । सर्वान्प्राणानिति । प्राणा दश वायवस्तान्समनस्कान्साम्नीन्पट्चक्रभेदनेन सुषुम्नाद्वारेण मूर्धानमानयतीत्यर्थः । पुनः स एष इत्यनुवाद आदरार्थः । अनेकार्थत्वान्निपातानामो १ क. ग. 'र्तव्यः स ं । २ ख. ङ. 'र्तव्यो । ३ घ 'ब्दरूप ई । ४ घ. 'विभागेन भे । ५ घ. भेदकाभा । For Private And Personal

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 663