Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah

View full book text
Previous | Next

Page 5
________________ प्रस्तावना। mooooooo000000000000000000000000000 अस्योपदेशतरगिण्यारयस्याऽन्वर्थ नाम सबिभ्रतो ग्रन्थस्य कर्तार श्रीनन्दिरत्नगणिशिष्यप्रवरा पण्डितमण्डना श्रीरलमन्दिरगणयोऽभूवन् । यद्यप्ये| मिस्रन्थकर्तृभि स्वसत्तासमयो नात्रोपनिबद्ध , तथापि तैरेव विरचितस्य श्रीभोजप्रबन्धस्य प्रशस्ति गतेन "जात -श्रीगुरुसोमसुन्दरगुरु श्रीमत्तपागच्छपम्तत्पादाम्बुजपट्पदो विजयते श्रीनन्दिरलो गणि । तच्छिप्योऽस्ति च रवमन्दिरगणिर्भोजप्रबन्धो नवस्तेनाऽसौ मुनिभूमिभूतशशभृत्सवत्सरे निर्मित" ॥ एतेन पयेन विक्रमार्कात् पोडशशताब्द्यामेपा विद्यमानता स्फुटमवसीयते । ग्रन्थकर्तृभिश्चात्र ग्रन्थे दानादि-सप्तक्षेत्रवित्तवितरण-पूजापञ्चाशक-तीर्थयात्रा-धर्मोपदेशात्मका पञ्च तरङ्गा उपन्यस्ता , येष्वतिसुगमाभिर्वचनरच8 नाभि सक्षिप्तैरपि तत्तद्विषयपरिपोपकैरनेकदृष्टान्तविन्यासै , अनल्पैश्च पूर्वमहाकविससूक्तिनिवहैश्चित्ताकर्पकतयोपदेशपदानि व्यावर्णितानि, विषयानुक्रमण्या पद्यानुक्रमणिकया चैतत् स्वय सहृदया अवभोत्स्यन्ते, इति नाऽवातिवक्तव्यमसाकम् । एभिर्ग्रन्थकर्तृभिर्भोजप्रबन्धव्यतिरेकेणाऽन्ये कियन्त किंविषयाश्च ग्रन्था प्रथिता ? इति नाद्यापि निश्चयपथमवतीर्णम् । उपदेशविषयेऽनन्यतमस्याऽत्युपकारिणश्चास्य ग्रन्थस्य नाद्यावधि मुद्रण जातम् , अत्यावश्यक च तद् विज्ञाय ग्रन्थोऽयमस्माभि प्रसिद्धिं नीत । अस्य ग्रन्थस्य च गूर्जरभाषायामनुवाद विदधता जामनगरनिवासिना पण्डितहीरालालेन तु वहुपु स्थलेपु विरुद्धार्थमेवानूदितम् , अनेकत्र गद्यार्थोऽपि न विहित , | अनल्पानि पद्यान्यपि परित्यक्तानि, किं बहुना ? यत्र न जात खमतिप्रवेश सर्वत्रापि तत्र पण्डितम्मन्यत्वेन किञ्चिदप्यनालोच्य, अपरिपृच्छय च बहुश्रुतान् 8 पाठापलाप एव विहित., एव च 'अगम्य एवाऽय विपय. स्वाथै कपराणाम् इति साधु सत्यापितम् , इति सुस्पष्टमेव भविष्यति ग्रन्थमेतं सुविचार द्रष्टुणा सजनानाम्

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 313