Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
समर्पणपत्रम्। अयि प्रशमपीयूषपयोनिधि-शान्त-तपोमूर्ति-मूरिमन्त्राराधक-तपागच्छाधिपति
प्रातःस्मरणीय-आचाय्येवये श्री १००८ विजयसिद्धिसूरीश्वरपादाः ! समाष्टमस्ति मच्चेतो भगवत्पादानामप्रतिमैः शमदमादिगुणगणैः । सुविहितनामधेयानां भवतां गभीरता, ". मुधादायी मुधाजीवी" इत्यादिशास्त्रीयवचनानुसारिण्युपदेशप्रवृत्तिापूर्वा वर्तत इति तु सर्वजनाऽविगानमेव । “सा मम समग्रस्य कुटुम्बस्य सधर्मजीवनं निर्मातुमतीवोपयोगिन्यभूत् " इत्येतत् सूचयति खलु मां प्रति निरतिशयं वात्सल्यं सदा संस्मरणीयानां श्रीमताम् । समग्रमाणिगणहितपरायणानां भगवत्पादानां प्राग् दर्शिताया एतस्याः स्तुत्योपकृतेस्तथा 'अस्मदीयसंस्थायै श्रीमद्भिर्वितीर्यमाणायाऽनानुमतेर्विश्वोपकारकसर्वोत्तमसाहित्यसंशोधनप्रचारकर्मणि स्वकीयस्वहस्तसंशोधितानेकशास्त्रप्रतिप्रदानादिना मम परोपकारकनिष्ठैर्मुनिपुङ्गवैर्भवद्भिर्विहितं भूरि भूरि साहाय्यं' तस्य च चिरस्मरणाय महनीयेभ्योऽपि महनीये भवतां कराम्भोजे समर्प्यतेऽयमपूर्वग्रन्थो
___ मया भवदमिलाषाहतेऽपि । सकलवस्तुतत्त्वप्रज्ञापके श्रीमहावीरदेवशासने द्रव्यानुयोगायनेकभेदभिन्नं ज्ञानादिरत्नत्रयप्रापकमत एव सकलशास्त्रेभ्योऽतिशयितं त्रिभुवनाश्चर्यकरं साहित्यनिधानं वरिवर्ति, तस्य प्रचारकर्मणि चतुस्त्रिंशदतिशयशालि-सकलसुरासुरसंसे वितसकलोपमातीत-देवाधिदेव-श्रीमहावीरदेवाज्ञापरिपालनपरैः श्रीवीरशासनवियत्प्रकाशनहिमांशुभिर्महर्षिभिः शासनरसिक-श्राद्धरत्नैश्च कामं कामं व्यवसितं तस्याये मम प्रयत्नास्तु सर्वथाकिंचित्करा एव, तथापि ते फलेग्रहिणोऽभूवन् तत् कृपावतां भवादृशां कृपाफलमित्येव मन्येऽहम् । साहित्यप्रचारकस्य मम स्वल्पा अपि यत्नाः फल. वैपुल्यभाजो भवन्त्विति मनोभिलाषं विरमाम्यहम् ।
मोहमयीनगर्याम् वि. सं. १९८२ द्वितीयचैत्रशुक्लत्रयोदश्यां रविवासरे (महावीरजन्मजयन्तीदिने)
भवदीयचरणसेवासमुत्सुकः साकरचन्द्रात्मजो जीवनचन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 546