Book Title: Tattvarthadhigamsutram Part 1 Author(s): Umaswati, Umaswami, Hiralal R Kapadia Publisher: Jivanchandra SakarchandraPage 19
________________ अथ कार्यारम्भे 'श्रीमोहनलालजीजैनसेन्ट्रललाइब्रेरी'तः तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेनगणिकृतटीकायाः प्रतिः श्रीजयसूरिप्रधानशिष्य श्रीमत्प्रतापमुनिद्वारा समासादिता । प्रत्यन्तरं च लब्धं श्रीजीवनचन्द्रात् । तदनन्तरं मुद्रणालयपुस्तिका समारब्धा । पाठान्तरार्थ श्रीजयमूरिदत्तमुद्रितपुस्तकस्य 'बङ्गालएशियाटिकसोसायटी' प्रकाशितस्य पुस्तकस्य चोपयोगः कृतः । एषामादर्शपुस्तकानां क-ख-ग-घेति संज्ञा निर्धारिता । सन्दिग्धस्थलेषु साधनीभूतायाः सूर्यपुरस्थजैनानन्दपुस्तकालयप्रतेस्तु साक्षादुल्लेखः।। पश्चाध्यायपर्यन्तमुद्रणालयपुस्तिकायाः प्रायः समाप्तौ सत्यां विषयसूचकानां पार्श्वनिर्दिष्टटिप्पनिकानां मयोल्लेखोऽकारि येन सुलभतया सर्वेषां विषयाकलनं स्यादिति । अनन्तरं मुद्रणालयपुस्तिका जैनसिद्धान्तपारङ्गतश्रीआनन्दसागरसूरिसविधे प्रहिता । मय्यनुकम्पार्द्रहृदयैस्तैर्मदभ्यर्थनया प्रायः सर्वत्र आगमोद्धृतपाठस्थलच्छायाभिः पश्चमाध्याये टिप्पनीभिश्च सा विभूषिता। संशोधनकार्य चातीव साहाय्यमकारीति तेषां परोपकृतिसौजन्य वर्णयितुं न पारये। ___ ग्रन्थार्धस्य परिसमाप्तौ प्रकाशकाय मया सूचितं यदस्य शुद्धिपत्रं सार्वसिद्धान्ततत्ववेदिना मुनिवरेण तज्ज्ञगृहस्थेन वा यदि क्रियेत तर्हि महान् लाभो भविष्यति ग्रन्थोऽपि विशेपत आदरणीयः स्यादिति । तदूरीकृत्य तेन विज्ञप्तचॅनशासनसेवाहेबाकैः उपाध्यायश्रीमङ्गलविजयैर्मत्प्रोत्साहनगर्भितमेतत् कार्य स्वीकृतम् । 'उग्रसेन '( आग्रा )पुरस्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य ३२६ पंत्रात्मिकां श्रीविक्रमात् १७२२ तमे वर्षे ज्येष्ठकृष्णद्वितीयायां लिखितां नात्यशुद्धां प्रति समादाय शुद्धिपत्रं पाठान्तरसमेतं स्वानुभवगम्यपाठकलितं तैरकारीति तेषां कियान् परिश्रमो बभूवेति विद्वांस एव जानीयुः । अन्ते यैथैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतः तेषां सौजन्यं संस्मरन् पठनपाठनप्रवणपण्डितवर्येभ्यः स्खलितस्थलसम्बन्धिनी क्षमा याचमानोऽस्माद् विज्ञापनप्रस्तावाद् विरमामि---- रसिकनन्दनः कापडियेत्युपाहो हीरालालः। १ पत्रस्योभयपाधै त्रिंशत् त्रिंशत् पतयः, प्रत्येकपङ्कौ च एकषष्टिरक्षराणि । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 546