________________
अथ कार्यारम्भे 'श्रीमोहनलालजीजैनसेन्ट्रललाइब्रेरी'तः तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेनगणिकृतटीकायाः प्रतिः श्रीजयसूरिप्रधानशिष्य श्रीमत्प्रतापमुनिद्वारा समासादिता । प्रत्यन्तरं च लब्धं श्रीजीवनचन्द्रात् । तदनन्तरं मुद्रणालयपुस्तिका समारब्धा । पाठान्तरार्थ श्रीजयमूरिदत्तमुद्रितपुस्तकस्य 'बङ्गालएशियाटिकसोसायटी' प्रकाशितस्य पुस्तकस्य चोपयोगः कृतः । एषामादर्शपुस्तकानां क-ख-ग-घेति संज्ञा निर्धारिता । सन्दिग्धस्थलेषु साधनीभूतायाः सूर्यपुरस्थजैनानन्दपुस्तकालयप्रतेस्तु साक्षादुल्लेखः।।
पश्चाध्यायपर्यन्तमुद्रणालयपुस्तिकायाः प्रायः समाप्तौ सत्यां विषयसूचकानां पार्श्वनिर्दिष्टटिप्पनिकानां मयोल्लेखोऽकारि येन सुलभतया सर्वेषां विषयाकलनं स्यादिति । अनन्तरं मुद्रणालयपुस्तिका जैनसिद्धान्तपारङ्गतश्रीआनन्दसागरसूरिसविधे प्रहिता । मय्यनुकम्पार्द्रहृदयैस्तैर्मदभ्यर्थनया प्रायः सर्वत्र आगमोद्धृतपाठस्थलच्छायाभिः पश्चमाध्याये टिप्पनीभिश्च सा विभूषिता। संशोधनकार्य चातीव साहाय्यमकारीति तेषां परोपकृतिसौजन्य वर्णयितुं न पारये।
___ ग्रन्थार्धस्य परिसमाप्तौ प्रकाशकाय मया सूचितं यदस्य शुद्धिपत्रं सार्वसिद्धान्ततत्ववेदिना मुनिवरेण तज्ज्ञगृहस्थेन वा यदि क्रियेत तर्हि महान् लाभो भविष्यति ग्रन्थोऽपि विशेपत आदरणीयः स्यादिति । तदूरीकृत्य तेन विज्ञप्तचॅनशासनसेवाहेबाकैः उपाध्यायश्रीमङ्गलविजयैर्मत्प्रोत्साहनगर्भितमेतत् कार्य स्वीकृतम् । 'उग्रसेन '( आग्रा )पुरस्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य ३२६ पंत्रात्मिकां श्रीविक्रमात् १७२२ तमे वर्षे ज्येष्ठकृष्णद्वितीयायां लिखितां नात्यशुद्धां प्रति समादाय शुद्धिपत्रं पाठान्तरसमेतं स्वानुभवगम्यपाठकलितं तैरकारीति तेषां कियान् परिश्रमो बभूवेति विद्वांस एव जानीयुः ।
अन्ते यैथैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतः तेषां सौजन्यं संस्मरन् पठनपाठनप्रवणपण्डितवर्येभ्यः स्खलितस्थलसम्बन्धिनी क्षमा याचमानोऽस्माद् विज्ञापनप्रस्तावाद् विरमामि----
रसिकनन्दनः कापडियेत्युपाहो
हीरालालः।
१ पत्रस्योभयपाधै त्रिंशत् त्रिंशत् पतयः, प्रत्येकपङ्कौ च एकषष्टिरक्षराणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org