________________
प्रस्तावना.
" यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाश्च विद्यन्ते ।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ १॥" __ मनीषिमनोमानसमरालानां तमस्तिरस्कारतत्परतरणि विधानवेधसां पञ्चशतीप्रकरणप्रणेतृणां वाचकवर्यविरुदविख्यातानां मुनिमूर्धमुकुटमणीनां श्रीउमास्वातीनां विषये वक्तुं कः क्षमः १ । तथापि स्याद्वादशैलीसमलङ्कतस्य लोकालोकाकलनैककुशलसर्वज्ञमूत्रितस्य रागारातिपराजयपारीणस्य च जैनदर्शनस्यानुरागेण 'शुभे यथाशक्ति यतनीय'मिति च न्यायेन क्रियतेऽयं प्रयासो मया मन्दमतिना । तत्र प्रथमं प्रस्तूयते ग्रन्थविचारः-
तत्त्वार्थाधिगमसूत्रेतिनामधेयस्यास्य महानिबन्धस्य भवति नाम्नैव विषयव्यक्तीकरणम्। जीवाजीवादिस्वरूपतत्त्वार्थविवरणादेवैतन्नामसार्थक्यम् । जैनसाहित्यस्य द्रव्यानुयोगादिचतुरनुयोगादिषु प्रधानतया प्रथमे द्रव्यानुयोगेऽस्य समावेशः।
ग्रन्थादौ भाष्यभूमिकायां प्रस्तावरूपाः ३१ सम्बन्धकारिकाः सङ्ग्रहीताः । तदनन्तरं प्रथमेऽध्याये सम्यक्त्व निक्षेप-निर्देश-ज्ञान-नयादीनां स्वरूपाणि व्याख्यातानिः द्वितीये जीवल
_ क्षणम्,औपशमिकादिभावानां ५३ भेदाः, जीवभेदाः, इन्द्रियाणि, आयुषः स्थितिः; अध्याय
यि लोकप्रज्ञप्तिनामके तृतीये नरक-नारकाणां विचारः, मनुष्यक्षेत्रवर्णनं, तिरश्चामधिविचारः
कारः; देवगतिप्रदर्शननाम्नि चतुर्थे देवविचारः, तदादीनामायुषो जघन्योत्कृष्टता; पश्चमे धर्मास्तिकायादिकाजीवव्याख्या, द्रव्यलक्षणं च षष्ठे आस्रवप्रस्तावः; अनगारागारिधर्मप्ररूमके सप्तमे देशविरतिसर्वविरतिविचारः; अष्टमे बन्धविचारः, नवमे संवरनिर्जराविचार, दशमे मोक्षतत्त्वाधिकारविचारः; तदन्ते उपसंहाररूपेण मोक्षमार्गः स्पष्टतया प्रतिपादितः संक्षेपेण ॥
सूत्रपरिमाणं प्रायः १९८ श्लोकाः। भाष्यप्रमाण २२०० श्लोकाः, तत्र सूत्रादि- प्रारम्भे ३१, प्रथमाध्यायान्तिमसूत्रभाष्ये ९ (४+५), षष्ठाध्यायनवमसूत्रपरिमाणम्
- भाष्ये१, अन्ते ३२ कारिकाःप्रणीताः। श्रीसैद्धसेनीयटीकापरिमाणं १८२८२ । अत्रैतट्टीकाप्रान्तस्थप्रशस्तिगतनिम्नलिखितश्लोको प्रमाणम्
"अष्टादश सहस्राणि, द्वे शते च तथा परे । अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसङ्ग्रहः ॥१॥ मूलसूत्रप्रमाणं हि, द्विशतं किञ्चिदूनकम् । भाष्यश्लोकस्य मानं च, द्वाविंशतिः शतानि वै ॥ २॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org