SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ एतेषु दशाध्यायेषु विभक्तानां सूत्राणां संख्या ३४४ इति श्वेताम्बराणां मान्यता, दिगम्बरास्तु तत्संख्या ३५७ मन्यन्ते । यत उभयोरपि सम्प्रदाययोर्माननीयस्यास्य ग्रन्थस्य सूत्रेषु सख्याभिन्नता पाठान्तराणि च सन्ति । दिगम्बरेष्वस्य ग्रन्थस्य मोक्षशास्त्ररूपेणापि प्रसिद्धिः । एकशः पाठकरणेन एकोपवासोपार्जितपुण्यं च भवतीति गरीयसीयं समादृतिः । उक्तं च "दशाध्यायपरिच्छिन्ने, तत्वार्थे पठिते सति । ग्रन्थस्य महत्त्वम् फलं स्यादुपवासस्य, भाषितं मुनिपुङ्गवः ॥ १॥" अस्य सार्वसिद्धान्तसारभूतस्य ग्रन्थस्य यद् महत्त्वं तदनुमीयते तदुपरि संस्कृत-हिंदी- . गुजराती कर्णाटकीय-आङ्ग्ल-जर्मन-भाषासु लिखितानां उपलब्धविवरणानां दर्शनात् । एतेषां किश्चित् स्वरूपं विचार्यते । तत्र श्वेताम्बरसम्प्रदाये १ तत्त्वार्थसूत्रभाष्यं २२०० श्लोकप्रमाणकं वाचकवर्यश्रीउमास्वातिविरचितम् । २ श्रीसिद्धसेनदिवाकरगुम्फितं गन्धहस्तिमहाभाष्यम् (१) । ३ श्रीदिन्नगणिशिष्यसिंहमूरिप्रशिष्यसिद्धसेनगणिकृता भाष्यानुसारिणी १८२८२ श्लोकपरिमिता टीका। श्रीहरिभद्रसरिप्रणीता भाष्यानुसारिणी ११००० श्लोकपरिमिता टीका । ५ न्यायविशारदन्यायाचार्यमहामहोपाध्यायश्रीयशोविजयविरचिता टीको भाष्यतर्कानुसारिणी। ६ श्रीमलयगिरिसूरिसंदृब्धा टीका । ७ श्रीतत्त्वार्थटिप्पणकं चिरन्तनमुनिवर्यप्रणीतम् । १ इदं भाष्यं पश्चाध्यायपर्यन्तं ग्रन्थेऽस्मिन् मुद्रितमस्ति । २ अधुनेदं नोपलभ्यते । ३ इयं टीका पश्चाध्यायपर्यन्ताऽस्मिन् ग्रन्थे मुद्रिता, शेषभागस्तु भविष्यति मुद्रितः। ४ "तत्त्वार्थमूलटीकायां हरिभद्रसूरि"रित्युल्लेखः प्रवचनसारोद्धारटीकायां ३३७तमे पत्रे। परम्परानुसारेण सार्धपञ्चाध्यायपर्यन्ता टीका श्रीहरिभद्रसूरिकृता, अवशिष्टा तु तच्छिष्यवर्यश्रीयशोभद्रसूरिभी रचिता। ५ प्रथमाध्यायपर्यन्ता मुद्रापिता अमदावादस्थश्रेष्ठिवर्यमनसुखभाईतनुजनुर्माणेकलालभाईश्रेष्ठिप्रवरेण । ततः परमनुपलब्धेः । ६ अस्याः सम्भवे श्रीमलयगिरिसूरिमिः प्रज्ञापनावृत्तौ निम्नलिखितोल्लेखो हेतु: “यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधार्यम् ।" ७ इदं अमदावादस्थमाणेकलालभाईश्रेष्ठिवर्येण मुद्रापितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy