Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Udayprabhvijay
Publisher: Keshar Chandra Prabhav Hem Granthmala

View full book text
Previous | Next

Page 365
________________ श्री चिरंतनाचार्यकृतटीप्पणकम् परिशिष्ट- ६ लब्ध्युपयोगयोः परमार्थत ऐक्यमेव केवलमसौ भेदः, तद्यथा - इन्द्रियाणि विषयापेक्षया क्षायोपशमिकानि भवन्ति। परं तेषामुषयोगो ह्यान्तर्मुहूर्तिक एव स्यात्, लब्धिस्तु बहुतरकालपर्यन्तमिति। य एते एकेन्द्रियादयः स्पर्शनरसनघ्राणनयनश्रवणैर्यथोत्तरं वृद्धिशो वाच्या भवन्ति, ते च निर्वृत्त्युपकरणापेक्षया समाधीयन्ते मुख्यत्वात् । क्षयोपशमतस्तु पञ्चापीन्द्रियाण्येकेन्द्रियेष्वप्युपलभ्यन्ते । तद्यथा - एहि भो ! मां परिणय परिणय इति यौवनाभिमुखसर्वाङ्गरमणीय कन्याकृतसम्बोधनमाकर्ण्य पारदस्तत्पृष्टौ धावति। नूपुररणरणत्कारप्रसिद्धचरणकमलया नार्य्या पादस्पृष्टोऽशोकतरुरकालं चापि पुष्यति (पुष्प्यति)। तिलकवृक्षश्च स्त्रिया मुखचुम्बनं ददत्वाऽकालं पुष्यति । कुरबकवृक्षस्तु सर्वाङ्गशृङ्गाररमणीयनार्याऽऽलिङ्गनमात्रप्राप्तावकालं पुष्प्यति । केशरवृक्षश्च नारीणां मुखारविन्दमधुवासादकालं पुष्प्यतीति ।। (अ. - २, सू. - १७) (पृ. १०२ ) ९. ( अर्थ : ) - अर्थ इत्यवचनं ज्ञानापेक्षं स्वाम्यपेक्षं वा । न च वाच्यमन्यः श्रोता, अन्यो द्रष्टा अन्यो रसयितेत्यादि । (अ. २, सू. - २१) (पृ. - १२९ ) ३३३ १०. ( शतपदी) - शतपदी कर्णखर्जूरिका कर्णशलाकेति ॥ ( अ. - २, सू. २४) (पृ. - १३५) ११. (वृश्चिक) - यत्तु कैश्चिदुच्यते वृश्चिकास्त्रीन्द्रिया इति तच्च तिमिरं ततः ॥ ( अ. २, सू. २४) (पृ. - १३५ ) १२. (संज्ञिन: ) - ह्यस्तने दिवसेऽहमेवमकार्ष श्वस्तने त्वेवमन्यथा वा करिष्यामीति चिन्तनं, सा दीर्घकालिकी संज्ञेत्युच्यते । द्वित्रिचतुरिन्द्रियाणां हि यद्यपि हेतुवादोपदेशिकसंज्ञया भवति वर्तमानकालस्मरणं, तथापि ते “दीनारमात्रेण कुतो धनवान् ”, इति न्यायादसंज्ञिन एव बोध्या, अतीतानागतयोश्चिन्तनवैकल्यात् । अतो दीर्घकालिकसंज्ञयैव संज्ञितव्यवहारः, संज्ञा त्रिधा हेतुवादोपदेशिकी दीर्घकालिकी दृष्टिवादोपदेशिकी चेति । अत्र तृतीया तु सम्यग्दर्शनवतामेव संज्ञिपञ्चेन्द्रियाणां भवति, तदपेक्षया सर्वे मिथ्यात्वीसंसारजीवा असंज्ञिन इत्युच्यमानाः स्युः । अत एव पञ्चमाङ्गे “नेरइया दुविहा पन्नता । तं जहा - सन्निभूया य असन्निभूया य इति” । “सन्नारहिया थिरा सव्वे" इति तु तिसृणामपि संज्ञानामपेक्षया । केवलिनः सिद्धाश्च नोसंज्ञिनो नोऽसंज्ञिन इति । यद्यपि केवलिनां त्रयोदशगुणस्थाने त्रयोऽपि योगाः प्राप्यन्ते तथापि मनोवर्गणापुद्गलग्रहणाधीनं न हि तेषां चिन्तनं भवति । केवलं ते दूरस्थानामवधिमतां मनः पर्यायिणां वा कुतश्चिदुत्पन्नसंशयापायहेतोः प्रत्युत्तरवार्ता अक्षररूपेण संकल्पयन्तीति । ततश्च द्रव्यमन एव तत्कथयितुं पार्यते, न च भावमनः । यथा हि - नाम कर्णेन्द्रियगृहीतुमुचिततद्वक्त्रविनिर्गतवर्ण-सन्दोहो द्रव्यश्रुततया भगवदपेक्षायां भण्यते तथेदम्। ननु नाम तर्हि द्रव्यस्य पर्यायवियुततया द्रव्यत्वमेव कुतस्तनं स्यात् । मैवम् । श्रोतृविज्ञातृछद्मस्थपुरुषान्तस्तस्य भावस्फुटलाभात् न च ते भावा एकान्तशो द्रव्याद्भिन्नास्ततश्चाऽविरोधसिद्धिः । (अ. २, सू. - २५) (पृ. - १३९ ) १३. (विग्रहगती) - यत्रालोकाकाशप्रदेशानां मार्गमध्ये प्राप्तिर्भवति तत्र ऋजुगतिर्व्याहन्यते । अलोकान्तः - - -

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376