Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch

View full book text
Previous | Next

Page 4
________________ भूमिका इदमिदानी दर्शनपरिश्रमकृतादरेषु निवेदयामः ; यदुत सव्याख्यं सटिप्पणं च किमपि दर्शनग्रन्थरत्नं मुद्रणेन प्रकाशयाम इति ॥ तत्र मूलं स्रग्धरावृत्तगुम्भितं ५०० पद्यात्मकं जडजीवनायकबुद्ध्यद्रव्यसरात्मकैः पञ्चभिर्महाप्रकरणैः प्रविभक्तशरीरं तत्वमुक्ताकलापनाम्ना प्रथते ॥ तद्व्याख्या च सर्वार्थसिद्धिनाम्नी तत्तन्महाप्रकरणानुगतसुसङ्गतनिखिलावान्तरप्रकरणा अवश्यापेक्षितनातिसंक्षेपनिरूपणा मूलकृतैव दयालुना प्रणायि ।। सर्वार्थसिद्धेाख्या च प्रायः प्रतिविषयावतरणकृतक्षणा तत्तद्वाधन्तरवचोऽनुषङ्गप्रदर्शनकृतसुबहूपकरणा आनन्ददायिनीत्यन्वर्थ प्रथते ॥ मूलसर्वार्थसिद्धयोष्टिप्पणं तु भावप्रकाशनामकम् ॥ तत्र तत्वमुक्ताकलापसर्वार्थसिद्धयोः प्रणेता श्रीमान्निखिल कवितार्किकचक्रचूडामणिःवैदुष्यवैराग्यप्रमुखसद्गुणगणनिधिः निगमान्ताचार्यापरनामा श्रीमद्वेकटनाथदेशिकः ॥ आनन्ददायिन्यास्तु श्रीमन्निगमान्तगुरुवरचरणभक्तयेकधनस्य दोड्डयाचार्यापरनामधेयस्य अनेकप्रबन्धनिर्मातुः रामानुजाचार्यस्य विद्यावंशजः नृसिंहदेवः ॥ टिप्पणस्य तु इदानीं महीशूरपुरीमध्यविद्योतमानपरकालास्थानमलङ्कुर्वाणाः श्रीलक्ष्मीहयग्रीवदिव्यपादुकासेवक श्रीमदभिनवरङ्गनाथब्रह्मतन्त्रपरकालमहादेशिकाः ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 746