Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
.
xiv
.............
ऊस्ताब्दानां षोडशे शतके सत्या वैदुष्येण च प्रथितानां व्यासतीर्थानां न्यायामृतस्य बिम्बप्रकाशिकाका देवराजेन नृसिंहदेवपितामहेन स्वप्रबन्धे बहुशोऽनुवादात् ततोऽप्यर्वाचीन इति निर्णयामः ॥ व्याख्यानकौशलं च नृसिंहदेवसूरेः ; आनन्ददायिन्यारम्भे--
अप्रसिद्धस्य पक्षस्य विस्तरेण प्रकाशिकाम् ।
सर्वार्थसिद्धिसट्टीका करोम्यानन्ददायिनीम्॥ इति स्वीयां प्रतिज्ञा यथावसरं निर्वहता साध्वेव गुणग्राहिरमणीयमिति नात्राधिकं वक्तव्यमस्ति ॥
भावप्रकाशश्च तत्वमुक्ताकलापसर्वार्थसिद्धयोः तत्तत्स्थलेषु आनन्ददायिन्याप्यगतार्थेषु विषयेषु यथायथं वैशद्यातिशयमादधानः तत्रतत्राचार्यसूक्तिषु शब्दतोऽर्थतश्च विवक्षितान् विशदरमणीयमुपहरन् प्रेक्षावतां सुबहूपकारक इति वक्तुं प्रमोदामहे ॥
___ आचार्यवैदुष्यपरिचयः. बहुविधगहनदर्शनारण्यप्रथमहामार्मिकस्य भगवतो निगमान्तगुरोः वैदुष्यसाक्षिसहस्रे कं चिदेकं सहृदयेष्वर्पयितुं प्रवर्तामहे
चार्वाकदर्शनमिति लोकायतदर्शनमिति च बार्हस्पत्यसूत्रोपझं प्रथमानमास्ते किमपि दर्शनम् । तस्य च दर्शनस्य प्रायस्सर्वे दार्शनिका अनुवदितारो निरासकाश्च ; न खलु स दृश्यते श्रूयते वा आस्तिको नास्तिको वा दार्शनिकः यश्चार्वाकदर्शनमिति कैश्चिदक्षरैरननुवदन् ससं. रम्भमनिरस्यंश्च स्यात् !
लोकायतपदप्रयोगविषयः लोकायता वदन्त्येवं नास्ति देवो न निवृतिः । धर्माधौं न विद्यते न फलं पुण्यपापयोः ॥
(हरिभद्रसूरेष्षड्दर्शसमुच्चये)

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 746