Book Title: Swopagnyashabda maharnavnyas Bruhannyasa Part 5
Author(s): Hemchandracharya, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text ________________
[ पा० ४, सू० ५६-६०. ]
"यथा वर्षणेन चेलानि शब्दायन्ते तथा वृष्ट इत्यर्थ: " इति, तथापि तत्राप्यार्द्रीभाव एवं कारणमिति स एवार्थो मुख्यतया वाच्य इति युकम् । नात्र केवलस्य क्नूयतेर्ग्रहमपि तु ण्यन्तस्येत्याह- क्नोपेरिति क्नूयमानं प्रयुक्त 5 इति णिगि "अतिरी० [ ४. २. २१. ] इति पौ " पुस्पौ" [ ४. ३. ३. ] इति गुणे "खो : ०" [४ ४ १२१.] इति यलुकि च 'क्लोपि' इति ण्यन्तो धातुः, एतदेव स्पष्टयति- क्नोपयतेरिति । उदाहरति- चेलक्नोपं वृष्टो मेघः इति - अत्रानेन णमि " णेरनिटि" [ ४. ३. 10८३.] इति णेर्लोपः, चेलार्थ कशब्दान्तरमाश्रित्योदाहरति- वखक्नोपम् वसनक्नोपमिति- 'वृष्टो मेघः' इत्यत्रापि योजनीयम् । प्रकृते वृष्टिमानमार्गीभावं च स्फोरयति यावता चेलं क्नूयते - आर्द्राभवति तावद वृष्ट इत्यर्थः इति । चेलं वस्त्रमर्थो यस्य तस्मादित्यर्थग्राहक15 मर्वग्रहणं साभिप्रायमित्याह- अर्थग्रहणादत्र स्वरूपपर्याय-विशेषाणां त्रयाणामपि ग्रहणमिति - स्वरूपचेलशब्दः, पर्यायी वस्त्रवसनशब्दौ विशेषी-पटिकाकम्बले, तेषां सर्वेषामपि ग्रहणेन तद्घटिता एते प्रयोगाः साधवः,
-
कलिकालसर्वज्ञश्री हेमचन्द्रसूरिभगवत्प्रणीते
दाहृतं तृतीये उदाहर्तुमाह- तेन त्रयाणामपि 20 ग्रहणेन, 'पटिकक्नोपम्, कम्बलक्नोपम्' इत्यादी चेलविशेषादपि भवतीति पटिका -कम्बलशब्दावत्र वस्त्रविशेषवाचकौ । वृष्टेः पूर्वं चेलादीनामार्द्रीभावाभावादिह पूर्वकाले णमो विधानमसङ्गतं स्यादित्यपूर्व काल एवायं विधिरित्याह-- 'अयमप्यप्राक्काल एव विधि25 रिति, अपना पूर्वसूत्रस्यापि तथैवाप्राक्काले विधायकत्वं सूचितम्, तत्रापि वर्षणोत्तरमेव गोष्पदादीनां पुरणसम्भवात् । यद्यपि ' गोष्पदं पूरयित्वा, चेलं क्नोपयित्वा' इत्यादिरूपेण प्राक्कालार्थेन त्वाप्रत्ययान्तेनैव विग्रहः क्रियते, तथापि तत्र क्वाप्रत्ययस्यापि समानकर्तृकत्वविशिष्ट30 क्रियायामेव शक्तिनं तु प्राक्काले, गोष्पदपूरणविशिष्टा वृष्टिरित्यादिरूपेणैव प्रतीतेः शब्दस्वभावसिद्धत्वात् । अथवा गोष्पदं पूरयेयमिति मनसा पूर्वमेव पूरयित्वा ततो वृष्ट इत्यादिवर्णनया कथञ्चित् पूर्वकालार्थो व्याख्येयः, अत्यन्तसूक्ष्मकालव्यापितया वा पौर्वापर्यानवगतिरिति 35 बोध्यम् ।। ५.४ ५८. ॥
२६३
गात्र- पुरुषात् स्नः । ५. ४. ५६ ।।
त० प्र०- गात्र- पुरुषाभ्यां व्याप्याम्यां परादन्तर्भूतव्यर्थात् स्नातेस्तुल्यकर्तृकेऽर्थे वर्तमानात् वृष्टिमाने गम्यमाने धातोः संबन्धे णम् वा भवति । गात्रस्नायं वृष्टो मेघः, पुरुषस्नायं दृष्टो मेघः ; यावता गात्रं पुरुषश्च स्ना- 40 प्यते तावद् वृष्ट इत्यर्थः । इदं केचिदेवेच्छन्ति ॥ ५६ ॥
1
श० म० न्यासानुसन्धानम् - स्नाते रकर्मकत्वेन गात्रपुरुषयोस्तत्कर्मत्वमनुपपन्नमिति तदुपपत्तय आह-अन्तर्भूतयर्थादिति - ण्यर्थो हि प्रयोजकव्यापारः सोऽन्तर्भूतो धात्वर्थ एव निहितो यस्य तस्मादिति, तथा च प्रयोजक- 45 व्यापारे सति प्रयोज्यस्य कर्मत्वमुपपन्नतरमिति भावः । उदाहरति- गात्रस्नायं वृष्टो मेघः, पुरुषस्नायं वृष्टो मेघः इति- "ष्णांक स्ना शौचे" अतो णमि " आत ऐ: ० " [४. ३.५३.] इत्याकारस्य ऐकारे आयादेशे अस्युक्तसमासे च गात्रस्नायमित्यादि । वृष्टिमानं गमयति- 50 यावता गात्रं पुरुषश्च स्नाप्यते तावत् वृष्ट इत्यर्थः इति । पाणिनीयादावस्य वचनस्यादर्शनादाह- इदं केचि देवेच्छन्तीति न सर्वे वैयाकरणा इति शेष:, तेषां मते गात्रस्नायादीनामनभिधानमेवेति ॥ ५. ४. ५ε. ।। शुष्क-चूर्ण- रूक्षात् पिषस्तस्यैव । ५. ४. ६० ।। 55 त० प्र०- शुष्क- चूर्ण-रूक्षेभ्यो व्याप्येभ्यः परात् विषेर्णम् वा भवति, तस्यैव धातोः संबन्धे सति । शुष्कपेषं पिनष्टि, शुष्कं विनष्टीत्यर्थः एवं चूर्णपेयम्; रूक्षपेषम्; शुष्कपेषं free, शुष्कपेषं पेष्टव्यः, शुष्कपेषं पिव्यते, क्तादिभिरुक्तsपि व्याप्येतदुपपदताऽस्त्येव । प्रयोगानुप्रयोगक्रिययोरं- 60 क्यात् तुल्यकर्तृकत्वं प्राक्कालत्वं च नास्तीत्यत्र प्रकरणे पक्षे क्त्वा न भवति । घञादय एव तु भवन्ति- शुष्कस्य पेषं पिनष्टि, सामान्यविशेषभावविवक्षया च धातुसंबन्धः । यदाहुः - सामान्यन्यपुषेरवयवपुषिः कर्म भवतीति । कश्चित् तु 'सामान्यविशेषविवक्षयाऽत्रापि क्रियाभेदोऽस्तीति 'तुल्य- 65 कर्तृकत्वं प्राक्कालत्वं च तेन क्त्वाऽपि, निमूलं कषित्वा कषति' इत्यादि मन्यते ॥ ६० ॥
श० म० न्यासानुसन्धानम् - शुष्क० । शुष्कपेषं पिनष्टीति- “पिष्लृ प् पिष् संचूर्णने" अतोऽनेन मि उपान्त्यगुणे ङस्युक्तसमासे च - शुष्कपेषमिति, तदर्थमाह- 70
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326