________________
Shri Mahavirais Aradhana Kendra
सूत्रकृताङ्ग शीलाङ्काचायय
त्रियुतं
॥ २५ ॥
www.kobatirth.org
Acharya Shri Kailashsagaru Granmandir
क्षणयोगः स विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थः तथा च तेऽभिदधति — स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा ?, यद्यविनश्वरस्वभावस्ततस्तद्वयापिन्याः क्रमयौगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभाव: प्रसजति, तथाहि - यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः | क्रमेण वा प्रवर्तेत यौगपद्येन वा १, न तावत्क्रमेण, यतो ह्येकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा नवा ?, यदि विद्यते किमिति क्रमकरणं १, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा १, यदि क्रियते किं पूर्वस्वभाव परित्यागेना परित्यागेन वा १, यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्कि सहकार्यपेक्षया १, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं यतः - 'अपेक्षेत परं कश्चिद्यदि कुर्वीत किश्चन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते १ ॥ | १ ||" अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रिया करणखभावो न विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वितीयादिक्षणेऽकर्तृत्वमायातं, तथा च सैवानित्यता, अथ तस्य तत्स्वभावत्वाता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतं, कृतस्य करणाभावादिति, किंच-- द्वितीया दिक्षणसाध्या अप्यर्थाः प्रथमक्षण एवं प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयौगपद्याभ्यामर्थक्रिया विरहान्न स्वकारणेभ्यो नित्यस्योत्पाद इति । अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वं, तथा चोक्तम् - "जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च १ ॥ १ ॥ ननु च सत्यप्यनित्यवे यस्य
For Private And Personal
१ समया
ध्ययने
अफलवादिबौद्धाः
।। २५ ।।