Book Title: Suparshvanath Charitra Part 2
Author(s): Ajitsagarsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 495
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ॐ अहम् ॥ श्रीमद् सच्चारित्रचूडामणि सुखसागराष्टकम् ॥ ललित. अखिल कर्मणां ग्रन्थिभेदकं, भवनिवारकं शान्तिधारकम् । __ प्रणत सौख्यदं दीनतापह, सुखपयोनिधिं श्रीगुरुं भजे ॥१॥ जितकलिकलौ तत्त्ववेदिनं, मथितमानसोद्भूतविक्रमम् । क्रमकदर्थिताऽनेकविक्लवं, सुखपयोनिधि श्रीगुरुं भजे ॥२॥ तमकलङ्कितं वर्त्तनं स्तुतं, जनगणैः सदा यस्य शस्यते । ____ परम पात्रता यत्र राजते, सुखपयोनिधिं श्रीगुरुं भजे ॥३॥ मुनिवर ? त्वयादीपितं ततं, मतिमतादृतं जैनशासनम् । ___ जिनमतार्थिनस्त्वां नमन्त्यतः, सुखपयोनिधिं श्रीगुरुं भजे ॥४॥ नियमधारिणीं श्राद्धसन्तति, विहितवान्भवाँस्तत्त्वदेशकः । तवगुणानहं स्तोतुमक्षमः, सुखपयोनिधिं श्रीगुरुं भजे ॥५॥ रतिकरी न यन्मूर्तिरुत्तमा, भवति कस्य सद्भूतिदायिनी । करुणचेतसं सम्पदालयं, सुखपयोनिधिं श्रीगुरुं भजे ॥६॥ चिरमखण्डिता भावनापरा, विमलचेतसा येन साधिता । शमितकामनं तं मुनिप्रियं, सुखपयोनिधिं श्रीगुरुं भजे ॥७॥ तमघातिनं त्रातभारतं, पतितपावनं कारिताऽवनम् । अखिलदेहिनामात्मबोधदं, सुखपयोनिधि श्रीगुरुं भजे ॥८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 493 494 495 496 497