________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ॐ अहम् ॥ श्रीमद् सच्चारित्रचूडामणि सुखसागराष्टकम् ॥
ललित. अखिल कर्मणां ग्रन्थिभेदकं, भवनिवारकं शान्तिधारकम् ।
__ प्रणत सौख्यदं दीनतापह, सुखपयोनिधिं श्रीगुरुं भजे ॥१॥ जितकलिकलौ तत्त्ववेदिनं, मथितमानसोद्भूतविक्रमम् ।
क्रमकदर्थिताऽनेकविक्लवं, सुखपयोनिधि श्रीगुरुं भजे ॥२॥ तमकलङ्कितं वर्त्तनं स्तुतं, जनगणैः सदा यस्य शस्यते । ____ परम पात्रता यत्र राजते, सुखपयोनिधिं श्रीगुरुं भजे ॥३॥ मुनिवर ? त्वयादीपितं ततं, मतिमतादृतं जैनशासनम् । ___ जिनमतार्थिनस्त्वां नमन्त्यतः, सुखपयोनिधिं श्रीगुरुं भजे ॥४॥ नियमधारिणीं श्राद्धसन्तति, विहितवान्भवाँस्तत्त्वदेशकः ।
तवगुणानहं स्तोतुमक्षमः, सुखपयोनिधिं श्रीगुरुं भजे ॥५॥ रतिकरी न यन्मूर्तिरुत्तमा, भवति कस्य सद्भूतिदायिनी ।
करुणचेतसं सम्पदालयं, सुखपयोनिधिं श्रीगुरुं भजे ॥६॥ चिरमखण्डिता भावनापरा, विमलचेतसा येन साधिता ।
शमितकामनं तं मुनिप्रियं, सुखपयोनिधिं श्रीगुरुं भजे ॥७॥ तमघातिनं त्रातभारतं, पतितपावनं कारिताऽवनम् ।
अखिलदेहिनामात्मबोधदं, सुखपयोनिधि श्रीगुरुं भजे ॥८॥
For Private And Personal Use Only