Book Title: Subhashit Sukt Ratnamala Sanskrit
Author(s): Charanvijay
Publisher: Chimanlal Nathalal Gandhi
View full book text
________________ '494 सुभाषितसूक्तरत्नमाला कलिकालसर्वज्ञप्रणीतं चैत्यवंदनम् चक्रिणां नैव चक्रेण, न चक्रेणार्द्धचक्रिणाम् / न चेशानस्य शूलेन, न वज्रेण ममापि वा // 1 // न चास्त्रैरपरेन्द्राणां, यानि भेद्यानि जातुचित् / तानि कर्माणि भिद्यन्ते, दर्शनेनापि नाथ ! ते // 2 // नैव क्षीरोदवेलाभि-न प्रभाभिः क्षपापतेः। नैव वारिधरासारैः न च गोशीर्पचन्दनः // 3 // न वा निरन्तरै रम्भा-शमैः शाम्यन्ति ये खलु / सर्वे ते दुःखसन्तापाः, शीयन्ते दर्शनेन ते / / 4 / / न ये नानाविधैः क्वाथै-चूर्णेश्च विविधैन ये / न च प्राज्यैः प्रलेपैर्ये, न च ये शस्त्रकर्मभिः // 5 // न च मन्त्रप्रयोगैये, छिद्यन्ते जातु देहिनाम् / आमयास्ते प्रलीयन्ते, दर्शनेनापि ते प्रभो ! / / 6 // खलूक्त्वा यदि वानल्प-मल्पमेतद्रवीम्यहम् / यत् किश्चिदप्यसाध्यं, तत् साध्यते दर्शनेन ते // 7 // तदर्शनस्यास्य फल-मिच्छाम्येतज्जगत्पते / भूयो भूयः सम्प्रतीव, भवद्दर्शनमस्तु मे // 8 // श्रीनेमनाथस्वामि चैत्यवंदनम् / इन्द्रोपेन्द्रौ पुनर्नवा, जिनेन्द्रमथ नेमिनम् / पारेभाते स्तोतुमेव, गिरा भक्तिपवित्रया // 1 //

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576