Book Title: Stotrasamucchaya
Author(s): Chaturvijay
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 6
________________ तथा च वीरजिनेन्द्रस्तवनारम्भ खयमेव प्रन्थका प्रतिज्ञातम् । यथा- चित्रैः स्तोप्ये जिनं वीरं चित्रकृचरितं मुदा। प्रतिलोमानुलोमाद्यैः खगायैश्वातिचारुभिः॥ उदाहरणम्-“वन्दे मन्ददमन्देवं यः शमाययमाशयः। नायेनघघनायेना पाकृता ममताकृपा ॥" एतत् श्लोकस्थं प्रतिपादमारम्भतो वान्ततो वा पठितमपि स एवार्थः सैव शब्दरचना सम्पद्यते । एतादृशमदृष्टश्रुतपूर्व स्तोत्रसमुच्चयं जैनजनितानुकम्पाः श्रीमदमरविजयमहाराजशिष्या मुनिचतुरविजयमहाभागाः श्रीमन्मुनिवर्येभ्यो राजविजयेभ्य उपायनीकृतवन्तः । तं प्रन्थं मुम्बापुर्यां मुद्रणालयव्यपस्थापका रा. रा. रामचन्द्र यशवन्त शेडगे इति ख्याता निर्णयसागरमुद्रणालये मुद्रितवन्तः प्रकाशितवन्तश्च । तेषामुपकृतिं वारंवारं संस्मरामः । संवदितुं प्रत्यन्तराभावात् मानुषतासुलभप्रमादस्खलनाद्वास्मिन् स्तोत्रसमुच्चये यदि दोषाः स्युस्तान ये केऽपि अस्मदृष्टिपथमानेष्यन्ति तान् सबहुमानं संस्मृत्य दोषान्नूतनावृत्तौ परिशोधयिष्यामः । इति शम् । नारायणिर्विलोऽहं निवासी च हरिद्वने । विजापुरेऽस्य ग्रन्थस्य प्रस्तावं कृतवान् शुभम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 320