Book Title: Stotrasamucchaya Author(s): Chaturvijay Publisher: Pandurang Javji View full book textPage 4
________________ नन्दनवनमिवानन्ददायिनो विहारान् कारयामासुः । तत्र सदासन्निहितसुमनःसन्ताना नागपुन्नागमालतीजालकादयो लतास्तालतमालहिन्तालाम्रादयो महीरुहाः सर्वर्तुभिरधिष्ठिता आसन् । एषां लताविटपिनां मध्यभागे स्फटिकमणिभिरिवातिनिर्मलैरुदकैः परिपूर्णा जलाशयाश्च तत्र प्रस्फुरन्ति स्म। संसाराङ्गारतप्ताः शतशः सहस्रशः साधकवर्गास्तत्र गामंगामं हेमारविन्दोत्पलरेणुवासिताम्भसि गाहंगाहं श्रीसर्वज्ञजिनेन्द्रगणोदीर्ण शासनं श्रावंश्रावं महाराजाधिराजाश्चापि सागरवाससं वसुधां वधू च परित्यज्य करतलामलकवत् करगतकैवल्या अभूवन् । इत्थं श्रीचतुर्विशतिजिनोत्तमानां शिष्याः प्रशिष्याश्च करगततत्त्वज्ञानकरवाला एभ्यो विहारेभ्यो दिग्विजयार्थ निर्गम्य प्राकृतजनान्तःसंचारिणामज्ञानपरिपन्थिनां छेदनं समूलं विधाय तत्स्थाने सुज्ञानजिनमुनीन् संस्थापयितुमारेभिरे । उत्तरोत्तरं जिनोत्तमानां परमो धर्मो नूनमासेतुहिमाचलमङ्कुरितः । ततोऽल्पेनैव कालेनाना. यासेनच सोऽङ्कुरो नित्यर्तुफलपुष्पैरलंकृतो महान् महीरुह एव संवृत्तः रोदसी आवृत्य संस्थितश्च । परित्यक्तसर्वस्वाश्चतुर्विशतितीर्थकराः प्रतिप्रयाणकमुपचीयमानश्राद्धसेनासमुदायेन जर्जरन्तो वसुन्धरां मेघगम्भीराभिरुपदेशवाग्भिः पूरयन्तोऽ. म्बरतलं जगदुद्धरणार्थ धरणी प्रदक्षिणीकृत्यान्ते कण्ठीरवा इव वैकुण्ठमाक्रम्याकण्ठममृतं प्राश्नन्तोऽद्यापि तत्र भ्राजिष्णवस्तिष्ठन्ति । . अहो धन्याः खलु जैनाः, यथा माता दुर्ललितानपि बालान् लालयति । अस. त्पथवृत्तानपि करुणापूर्णकटाक्षैः संवीक्ष्य सद्बोधामृतं पाययति च तथैवैते वैराग्यसागरनिमज्जितात्मानोऽगण्यगुणराजिविराजमाना राकाशशाधवलद्युतिदीप्यमानमुखमण्डलाः केचिदाचार्यपुङ्गवा भवतां भवरोगपरिभवार्थ श्रीमच्चतुर्विंशतितीर्थकराणां स्तवनस्तोमान् सहृदयहृद्यान् तत्तच्छतकेषु व्यधासिषुः । परमेते सुगृहीतनामानः सूरिशिखामणयः कस्मिन् समये कतमं जनपदं जन्मभिर्भूषयांचकुरियेतद् ज्ञातुं नैव शक्यते इतिहाससाधनसंपत्त्यभावात् । तथापि तेषां चारित्र्यपत्राणि केषांचिदलसानां निलयेषु गुर्जरदेशे जर्जरीभूतानि धूलिधूसरिताङ्गानि क्रिमिकीटकाखादिताक्षराणि सम्पेदिरे । भवतामभ्युदयाय मुनिश्रीमहाराजानामात्माराममहाराजप्रशिष्याणां गुरुबान्धवा मुनिश्रीचतुरविजयमहाभागाः खेटकग्रामनगरपुरपत्तनादिषु गेहंगेहं संचार्य जर्जरीभूतानि स्तोत्रपटलानि समासाद्य तान्ये Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 320