Book Title: Sthanang Sutram Part 01 Author(s): Vijayhemchandrasuri Publisher: Jinshasan Aradhana Trust View full book textPage 5
________________ 15 से किं ठाणं ? अतिशयिज्ञानवतामभावे दुर्लभदेवदर्शनेऽपि च सम्प्रतकाले सिद्धान्तोऽयमद्यापि ह्यस्तित्वं बिभर्ति, यदध्ययनेन मध्यस्थानां मनीषिणां स्वयमेवाविर्भवति भगवद्वचनश्रद्धानम्। न हि करामलकवद्विश्वविश्वावलोकनमन्तरेणेदृगेकादिदशसङ्ख्यापर्यन्तवस्तूनां स्पष्टतरं वर्णनं कर्तुं शक्यते केनचिदग्दिर्शिणेति प्राज्ञाः स्वयमेव प्रतीतिं करिष्यन्ति। अहोऽस्माकं सौभाग्यं यदीदृग्विधं ग्रन्थरत्नमद्याप्यवाप्यत इत्ययं कोऽपि निरवध्यानन्दहेतुः। ___अतिगभीरस्यास्य ग्रन्थस्यार्थः सुगमो भवत्विति पुण्याभिलाषेण शासनदेवताविज्ञप्त्या च चान्द्रकुलीनाचार्यवर्यश्रीअभयदेवसूरिवरैरेतद्वृत्तिर्विरचिता। तामेवालम्ब्य संक्षिप्तरुचिसत्त्वानुग्रहार्थं पूजनीयगणिप्रवरश्रीनगर्षिणा दीपिकाभिधाना वृत्तिर्ग्रथिता। या मत्प्रेरणया मत्प्रशिष्यस्य प्रशिष्येण तपस्विमुनिप्रवरश्रीधर्मप्रेमविजयाभिधानेन श्रमपुरस्सरं संशोधिता सम्पादिता च। भवत्वेतदध्ययनेन तत्परिश्रमस्य शतधा साफल्यमित्याकाङ्क्षापुरस्सरं विरमत्येष - श्रीप्रेम-भुवनभानु-पद्मविनेयः आ. हेमचन्द्रसूरिःPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 432