Book Title: Sirikummaputtachariam
Author(s): Jinmanikyavijay, Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
परिशिष्टम् [१]
शुभवर्धनगणिप्रणीताया ऋषिमण्डलवृत्तौ द्वितीयखण्डे
कूर्मापुत्रर्षिकथानकम् ॥ दो-रयणिपमाणतणू जघण्णओगाहणाइ जो सिद्धो । तमहं तिगुत्तिगुत्तं कुम्मापुत्तं णमंसामि ॥(ऋषिमण्डल / १२५)
व्याख्या-तमहं कूर्मापुत्रर्षि नमस्करोमि । तं कीदृशम् ? तिगुत्तिगुत्तं त्रिभिर्गुप्तिभिर्गुप्तम् । तं कम्? यः कूर्मापुत्रो जघन्यावगाहनायां जघन्यदेहमाने सिद्धः सिद्धिं गतः । कीदृशः ? दोरयणिपमाणतणू- द्वौ रत्नी हस्तौ तत्प्रमाणं तनुर्यस्य । सिद्धौ गच्छतां जीवानामामवगाहना शरीरं त्रिधा-पञ्चशतधनुःप्रमाणदेहा मुक्तावुत्कृष्टावगाहना[ यां] यान्ति, जघन्यावगाहनायां द्विहस्तप्रमाणदेहा मुक्तौ यान्ति, तयोरन्तराले मध्यमावगाहनेति गाथार्थः ।। भावार्थस्तु कथानकादवसेयस्तच्चेदम्
दुर्गमपुरे पुराभूद् द्रोणनरेन्द्रः सुरेण सदृशबलः । पत्नी द्रुमाभिधास्यात्मजोऽभवद् दुर्लभस्त्वनयोः ॥१॥ कन्दुकवन्निजचेटान् स लोठयन् अन्यनृपकुमारांश्च । स्वैरं चिक्रीड चिरं दुर्ललितः पूर्वपुण्यभरात् ॥२॥ सुरनृपतिनतः सुगुरुः सुलोचनस्तत्र दुर्गिलोद्याने । समवासार्षीत् केवलसंशयहद् युगवरोन्येद्युः ॥३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194