SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [१] शुभवर्धनगणिप्रणीताया ऋषिमण्डलवृत्तौ द्वितीयखण्डे कूर्मापुत्रर्षिकथानकम् ॥ दो-रयणिपमाणतणू जघण्णओगाहणाइ जो सिद्धो । तमहं तिगुत्तिगुत्तं कुम्मापुत्तं णमंसामि ॥(ऋषिमण्डल / १२५) व्याख्या-तमहं कूर्मापुत्रर्षि नमस्करोमि । तं कीदृशम् ? तिगुत्तिगुत्तं त्रिभिर्गुप्तिभिर्गुप्तम् । तं कम्? यः कूर्मापुत्रो जघन्यावगाहनायां जघन्यदेहमाने सिद्धः सिद्धिं गतः । कीदृशः ? दोरयणिपमाणतणू- द्वौ रत्नी हस्तौ तत्प्रमाणं तनुर्यस्य । सिद्धौ गच्छतां जीवानामामवगाहना शरीरं त्रिधा-पञ्चशतधनुःप्रमाणदेहा मुक्तावुत्कृष्टावगाहना[ यां] यान्ति, जघन्यावगाहनायां द्विहस्तप्रमाणदेहा मुक्तौ यान्ति, तयोरन्तराले मध्यमावगाहनेति गाथार्थः ।। भावार्थस्तु कथानकादवसेयस्तच्चेदम् दुर्गमपुरे पुराभूद् द्रोणनरेन्द्रः सुरेण सदृशबलः । पत्नी द्रुमाभिधास्यात्मजोऽभवद् दुर्लभस्त्वनयोः ॥१॥ कन्दुकवन्निजचेटान् स लोठयन् अन्यनृपकुमारांश्च । स्वैरं चिक्रीड चिरं दुर्ललितः पूर्वपुण्यभरात् ॥२॥ सुरनृपतिनतः सुगुरुः सुलोचनस्तत्र दुर्गिलोद्याने । समवासार्षीत् केवलसंशयहद् युगवरोन्येद्युः ॥३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002556
Book TitleSirikummaputtachariam
Original Sutra AuthorJinmanikyavijay
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages194
LanguageSanskrit, Hindi, Gujarati, English
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy