________________
१४०
कुम्मापुत्तचरिअम् तत्रोद्याने यक्षिण्येका नाम्ना च भद्रमुख्यभवत् । बहुशालाख्यवटद्रोरध:क्षमासौधवासपरा ॥४॥ केवलिविद्विज्ञाताशेषपदार्थं समेत्य सा सुगुरुं । पप्रच्छ भक्तिनम्रा सुलोचनं प्रणितमाधाय ।।५।। मानुष्यपि पूर्वभवे मानवती नाम मुनिपतेभूवम् । प्राणप्रिया सुवेलाभिधस्य वेलन्धरसुरस्य ॥६॥ स्वल्पायु:क्षययोगात् तादृक्पुण्यक्षयाच्च समकालम् । भद्रमुखी नामाहं मृत्वा यक्षण्यभूवमिह ॥७॥ सुवेलाख्यः सुरः स्वामिन् ! किमास्ते कथयेति मे । केवल्याह ततश्च्युत्वा भद्रे स त्वदनुद्रुतम् ॥८॥ द्रोणनृपस्य सु[त] समस्ति सम्प्रति च वल्लभो जातः । अस्मिन्नगरे सुलभो नाम्ना खलु दुर्लभोऽप्येष ॥९॥ एवं निशम्य सम्यग् हृष्टा सा यक्षिणी गुरुं नत्वा । कृतमानवतीरूपा ययौ ततो दुर्लभसमीपे ॥१०॥ मनुजोत्क्षेपक्रीडापरायणं तं निरीक्ष्य सोवाच । रखैरेभिः किमहो मामनुधावाशु चेच्चित्तम् ॥११॥ स तामन्वचलत् तूर्णं निशम्येति च दुर्लभः । तत्पुर: सापि धावन्ती तमानेषीद्वने निजे ॥१२॥ बहुशालवटस्याधो वत्समानयति स्म सा । पातालविविधस्वर्णमणीमयमिमं गृहम् ॥१३।। तन्मणीमयमालोक्य भवनं भूपभूस्ततः । विस्मितोऽचिन्तयदत्र केनानीतोस्म्यहं द्रुतम् ॥१४।। अथ विस्मितचित्ताय तस्मै भूपसुते मुदा (भूपसुताय सा) । विनिवेश्य स्वपल्यङ्के प्रतिपत्तिमथ व्यधात् ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org