________________
परिशिष्टम्-१ ऋषिमण्डलवृत्तौ कूर्मापुत्रर्षिकथानकम्
१४१ ततो भद्रमुखी देवी प्राह तं हृष्टमानसा । प्राक् पुण्ययोगतः (पुण्येनागतः) स्वामिन्नद्य दृष्टश्चिराद्भवान् ॥१६।। कुमारस्तामथालोक्य दृष्टेयं क्वाप्यहो मया । विमृशन्निति सस्मार जाति प्राग्जन्मनः क्षणात् ॥१७|| तस्यां प्राग्भवभार्यायामनुरागं ततो दधौ । कुमार: सुतरां; यत्प्राक्स्नेहस्त्यक्तुं न शक्यते ॥१८॥ अशुभान् पुद्गलान् हृत्वा क्षिप्त्वा च शुभपुद्गलान् । तत्तनौ यक्षिणी तेन साकं भोगान् भुनक्ति सा ॥१९॥ इतः शोकाकुलेनैतात् पित्रा स त्ववलोकितः । सर्वत्रापि न लब्धोऽयं लभ्यते क्व सुरैर्हतम् ॥२०।। विमुक्ताहारयो राज-राज्योः पुत्रवियोगतः । केवल्यकथ्यतात्मीयपरीवारेण सोऽद्भुतः ॥२१॥ ततोऽतीववियोगा? गत्वा केवलिसंनिधौ । अपृच्छतां यथास्थानमुपविश्येदमादरात् ॥२२॥ स्ववशो रक्षणे केनापहृतो दुर्लभोङ्गजः । भगवन्नो ततः कृत्वा कृपामिति निवेदय ॥२३॥ ज्ञान्याह वां कुमारः स यक्षिण्यापहृतोधुना । ज्ञानी ताभ्यां पुनः पृष्टस्तत्स्वरूपं जगौ ततः ॥२४॥ मिलिष्यति कदा नौ स स्वामिंस्तावूचतुः पुनः । इह भूयो यदैष्यामो मिलिष्यति स वां तदा ॥२५।। संविग्नौ ताविति श्रुत्वा दुर्लभानुजमात्मजम् । न्यस्य राज्येथ भेजाते चारित्रं ज्ञानिनोऽन्तिके ॥२६॥ विजहतुः समं देशानुदेशं ज्ञानिनामुना । परीसहसहौ तप्यमानौ पो[०मानोपो०]षव्रतोद्यतौ ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org