________________
१४२
कुम्मापुत्तचरिअम् पुनरप्यागमत्तत्र दुर्गमे नगरे क्रमात् । केवली दुर्गिलोद्याने समं ताभ्यां कदाचन ॥२८॥ अल्पमायुः कुमारस्यावधेर्मत्वाऽथ यक्षिणी । समागत्य ततोपृच्छज्ज्ञानिनं सत्वरं तदा ।।२९।। आयुर्वर्धयितुं स्वल्पं कथंचिच्छक्यते विभो ! । संधातुमीशतेर्हन्तोप्यायु हेति केवली ॥३०॥ श्रुत्वैतद् भ्रष्टसर्वस्ववन्निरुत्साहमानसा । यक्षिणी स्वगृहं प्राप्ता पृष्टाद्धा[च] कुमरेण सा ॥३१॥ खिन्नवद् दृश्यसे किं त्वं सावादीन्नात्र कारणम् । सादरं च ततः पृष्टा केवलिप्रोक्तमाह सा ॥३२॥ ततः संवेगमापन्नः प्राह केवलिसंनिधौ । प्रिये मां नय तूर्णं साऽनैषीत्तं ज्ञानिसंनिधौ ॥३३।। ज्ञानिनं तं प्रणम्यैष न्यषीदत् तत्पुरस्ततः । आरोदिषातां तं वीक्ष्य पितरावस्य मोहतः ॥३४॥ वन्दस्व पितरावेतौ इत्येवं प्राह केवली । कथयामास पृष्टः सन् तत्स्वरूपं च केवली ॥३५॥ सोत्कण्ठं कुमरः प्राग्वदालिङ्ग्य पितरौ निजौ । रुदन् निकामं यक्षिण्या कष्टादथ न्यवार्यत ॥३६॥ स्ववस्त्रांचलके तं साश्रुदृशौ तस्य निमार्ण्य च । ज्ञानिक्रमाब्जमूले च न्यवेश्यत पुनस्तया ॥३७॥ व्यधात् स केवली मोहविषपीयूषसंनिभाम् । तत्काले तत्प्रबोधाय देशनां धर्मपेशलाम् ॥३८।। यक्षिणी तन्निशम्याथ ललौ सम्यक्त्वमादरात् । गुर्वन्तिके व्रतं भेजे पृष्ट्वा तां कुमरस्त्वसौ ॥३९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org