Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 22
________________ ६।२] हेतुलक्षणम् ३७५ एवं पक्षस्य लक्षणं प्रतिपाद्य प्रयोगं दर्शयन्नाह-तादृशस्य उक्तरूपस्य पक्षस्य धर्मः तदाश्रितत्वात् । अत्र पूर्वापरावधारणनियमचिन्ता न कृता उभयत्रापि दोषाभावस्य निरूपयिष्यमाणत्वात् । 'हेतुः' इति सम्बन्धः । किंभूतः ? व्याप्तः इति । तत्र व्याप्तियोगाद् [३०१ ख व्याप्त उच्यते । व्याप्तिश्च व्याप्यव्यापकोभयगता। व्याप्यगता तत्रैव तत्र (तस्य) भावः, व्यापकगता तत्र भाव एवं व्यापकस्य इति । केन ? इत्याह-तदे दंशेन (तदंशेन) तच्छब्देन ५ [पक्षः] परामृश्यते । यद्यपि च शाब्द्या वृत्त्या पक्षस्य धर्मविशेषणतया अप्राधान्यं तथापि आर्थन्यायानुसारि तस्य॑ प्राधान्यं तदाश्रितत्वाद् धर्मस्य इति । तस्य अंशेन अवयवेन । अनेन सर्वेण पक्षधर्म-"अन्वय-व्यतिरेकलक्षणं रूपत्रयमस्य दर्शयति। किंभूतस्य ? इत्यत्राह-निरुपचरितस्य मुख्यस्य इत्यर्थः। तदंशपदं व्याचष्टे-तस्य पक्षस्य अंशः तदंशः । अंशपर्यायम् आह-तद्धर्मः । पुनरपि १० तदन्तरमाह-तदेकदेश इति ।। ननु यदि धर्मः ; न तद्वेशः (तदंशः) तदवयवः। स चेत् ; न तद्धर्मः। तद्धर्मश्च] तदेकदेशश्च इति परस्परविरुद्धमेतत, 'तयोर्भेदात्। अत एव धर्म की र्ति ना "उक्तम्-*"तद्धर्मो न तदेकदेशः" [हेतुबि० टी० पृ० १५] इति चेत् ; नैतत्सारम् ; धर्मैकदेशयोः भेदाभावाभिप्रायेण एवं वचनात् । भेदाऽभेदात्मके हि ज्ञेये भेदाः कदाचिद् धर्मशब्देन कदाचिद् अंशशब्देन १५ कदाचिद् एकदेशशब्देन भेदशब्देन पर्यायशब्देन अनेन बोध्यन्ते (अन्येन वोच्यन्ते), तदात्मके ज्ञेय इति द्रव्यपर्यायात्माऽर्थः इति वस्तुभूतां (त)धर्माधिष्ठानं भावः इत्यादि व्यवहारदर्शनात्। "कीतिः पुनः *"कोऽन्यो न दृष्टो भागः स्यात्" [प्र०वा०३।४४] इति *"दृष्ट एव अखिलो गुणः" [प्र०वा० ३।४२] इति *"धर्मधर्मितया" [प्र०वा०स्ववृ०पृ०२४] इति च वदन्नेव धमैकदेशयोः भेदं स्ववचनविरुद्धं वदन्तीति (वदतीति) दर्शयितुमिदमुक्तम्-तद्धर्मः तदेकदेश इति। २० समुदायपक्षैकदेशस्य [३०२ क] उपचरितप्रदेशस्य धर्मिण एकदेश इति चेत् ; अत्राह-पक्षशब्देन समुदायवचनात् । निरूपितमेतत् । __ एवं तावत् परप्रतिपाद्य सति मुख्ये किं गौणकल्पनया इति वा ति क-हे" तु बि न्दु शा स्त्रे उपचरितं "परोपचरितं परोपदर्शितं पक्षं दूषयितुम् उपदर्शयन्नाह-पक्षो धर्मी इत्यादि । (1) "व्याप्तिर्हि व्यापकस्य तत्र भाव एव, व्याप्यस्य वा तत्रैव भावः।"-हेतुबि० पृ० ५३ । (२) व्यापके साध्ये सत्येव, न तु व्यापकाभावे । (३) व्याप्यस्य । (४) व्याप्ये सति । (५) सद्भाव एव न तु कदाचिदप्यभाव इति । (६) व्याकरणानुसारिसमासेन । (७) 'पक्षधर्म' इत्यत्र । (८) पक्षस्य । (९) पक्षाश्रितत्वात् । (१०)"एतेन अन्वयो व्यतिरेको वा पक्षधर्मश्च यथास्वं प्रमाणेन निश्चित उक्तः ।" हेतुबि० पृ० ५३। (११) सपक्षसत्त्वम् । (१२) असपक्षेऽसत्त्वम् , विपक्षाद्वयावृत्तिरित्यर्थः। (१३) न तदंशपदस्य 'तदवयवः' इत्यर्थः स्यात् । (१४) यदि तदंशपदेन अवयवः परिगृह्यते तर्हि । (१५) स अवयवः तद्धर्मपदेन न वक्तुं शक्यते इत्यर्थः । (१६) धर्म-अवयवयोः। (१७) तुलना-"तच्छब्देन पक्षः परामृश्यते न धर्मः। धर्मस्य धर्मासंभवात् । अंशश्च धर्मो नैकदेशः। [पक्षशब्देन धर्मिमात्रवचनात् न तदंशः तस्य एक] देशाभावादिति ।"-हेतुबि० टी० पृ० १७ । (१८) धर्मकीर्तिः। (१९) "धर्मधर्मितया भेदो बुद्ध्याकारकृतः ।"-प्र. वा. स्ववृ०। (२०) प्रमाणवा० स्ववृ० पृ० १२ । (२१) “पक्षो धर्मी अवयवे समुदायोपचारात्"-हेतुबि० पृ० ५२ । (२२) 'परोपचरित' इति द्विालाखतम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 456