________________
६।२]
हेतुलक्षणम्
३७५ एवं पक्षस्य लक्षणं प्रतिपाद्य प्रयोगं दर्शयन्नाह-तादृशस्य उक्तरूपस्य पक्षस्य धर्मः तदाश्रितत्वात् । अत्र पूर्वापरावधारणनियमचिन्ता न कृता उभयत्रापि दोषाभावस्य निरूपयिष्यमाणत्वात् । 'हेतुः' इति सम्बन्धः । किंभूतः ? व्याप्तः इति । तत्र व्याप्तियोगाद् [३०१ ख व्याप्त उच्यते । व्याप्तिश्च व्याप्यव्यापकोभयगता। व्याप्यगता तत्रैव तत्र (तस्य) भावः, व्यापकगता तत्र भाव एवं व्यापकस्य इति । केन ? इत्याह-तदे दंशेन (तदंशेन) तच्छब्देन ५ [पक्षः] परामृश्यते । यद्यपि च शाब्द्या वृत्त्या पक्षस्य धर्मविशेषणतया अप्राधान्यं तथापि आर्थन्यायानुसारि तस्य॑ प्राधान्यं तदाश्रितत्वाद् धर्मस्य इति । तस्य अंशेन अवयवेन । अनेन सर्वेण पक्षधर्म-"अन्वय-व्यतिरेकलक्षणं रूपत्रयमस्य दर्शयति। किंभूतस्य ? इत्यत्राह-निरुपचरितस्य मुख्यस्य इत्यर्थः।
तदंशपदं व्याचष्टे-तस्य पक्षस्य अंशः तदंशः । अंशपर्यायम् आह-तद्धर्मः । पुनरपि १० तदन्तरमाह-तदेकदेश इति ।।
ननु यदि धर्मः ; न तद्वेशः (तदंशः) तदवयवः। स चेत् ; न तद्धर्मः। तद्धर्मश्च] तदेकदेशश्च इति परस्परविरुद्धमेतत, 'तयोर्भेदात्। अत एव धर्म की र्ति ना "उक्तम्-*"तद्धर्मो न तदेकदेशः" [हेतुबि० टी० पृ० १५] इति चेत् ; नैतत्सारम् ; धर्मैकदेशयोः भेदाभावाभिप्रायेण एवं वचनात् । भेदाऽभेदात्मके हि ज्ञेये भेदाः कदाचिद् धर्मशब्देन कदाचिद् अंशशब्देन १५ कदाचिद् एकदेशशब्देन भेदशब्देन पर्यायशब्देन अनेन बोध्यन्ते (अन्येन वोच्यन्ते), तदात्मके ज्ञेय इति द्रव्यपर्यायात्माऽर्थः इति वस्तुभूतां (त)धर्माधिष्ठानं भावः इत्यादि व्यवहारदर्शनात्। "कीतिः पुनः *"कोऽन्यो न दृष्टो भागः स्यात्" [प्र०वा०३।४४] इति *"दृष्ट एव अखिलो गुणः" [प्र०वा० ३।४२] इति *"धर्मधर्मितया" [प्र०वा०स्ववृ०पृ०२४] इति च वदन्नेव धमैकदेशयोः भेदं स्ववचनविरुद्धं वदन्तीति (वदतीति) दर्शयितुमिदमुक्तम्-तद्धर्मः तदेकदेश इति। २० समुदायपक्षैकदेशस्य [३०२ क] उपचरितप्रदेशस्य धर्मिण एकदेश इति चेत् ; अत्राह-पक्षशब्देन समुदायवचनात् । निरूपितमेतत् ।
__ एवं तावत् परप्रतिपाद्य सति मुख्ये किं गौणकल्पनया इति वा ति क-हे" तु बि न्दु शा स्त्रे उपचरितं "परोपचरितं परोपदर्शितं पक्षं दूषयितुम् उपदर्शयन्नाह-पक्षो धर्मी इत्यादि ।
(1) "व्याप्तिर्हि व्यापकस्य तत्र भाव एव, व्याप्यस्य वा तत्रैव भावः।"-हेतुबि० पृ० ५३ । (२) व्यापके साध्ये सत्येव, न तु व्यापकाभावे । (३) व्याप्यस्य । (४) व्याप्ये सति । (५) सद्भाव एव न तु कदाचिदप्यभाव इति । (६) व्याकरणानुसारिसमासेन । (७) 'पक्षधर्म' इत्यत्र । (८) पक्षस्य । (९) पक्षाश्रितत्वात् । (१०)"एतेन अन्वयो व्यतिरेको वा पक्षधर्मश्च यथास्वं प्रमाणेन निश्चित उक्तः ।" हेतुबि० पृ० ५३। (११) सपक्षसत्त्वम् । (१२) असपक्षेऽसत्त्वम् , विपक्षाद्वयावृत्तिरित्यर्थः। (१३) न तदंशपदस्य 'तदवयवः' इत्यर्थः स्यात् । (१४) यदि तदंशपदेन अवयवः परिगृह्यते तर्हि । (१५) स अवयवः तद्धर्मपदेन न वक्तुं शक्यते इत्यर्थः । (१६) धर्म-अवयवयोः। (१७) तुलना-"तच्छब्देन पक्षः परामृश्यते न धर्मः। धर्मस्य धर्मासंभवात् । अंशश्च धर्मो नैकदेशः। [पक्षशब्देन धर्मिमात्रवचनात् न तदंशः तस्य एक] देशाभावादिति ।"-हेतुबि० टी० पृ० १७ । (१८) धर्मकीर्तिः। (१९) "धर्मधर्मितया भेदो बुद्ध्याकारकृतः ।"-प्र. वा. स्ववृ०। (२०) प्रमाणवा० स्ववृ० पृ० १२ । (२१) “पक्षो धर्मी अवयवे समुदायोपचारात्"-हेतुबि० पृ० ५२ । (२२) 'परोपचरित' इति द्विालाखतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org