________________
३७६
सिद्धिविनिश्चयटीकायाम्
[ ६ हेतुलक्षणसिद्धि: पक्षो धर्मी इत्येवम् उपचारे धर्मधर्मिसमुदायं (ये) वा अविनाभावतः पक्षधर्मस्य तदेकदेशे धर्मिणि एकदेशाभावेन परमार्थतोऽध्यारोपे अङ्गीक्रियमाणे । किम् ? इत्याह- तद् इत्यादि । स साध्यो धर्मो यस्य तस्य भावः तद्धर्मता सापि न सिद्धा इति । 'धर्मिणः' इति [ता' ] विभक्तिपरिणामेन सम्बन्धः । अपिशब्दात् न केवलं तदेकदेशता न सिध्यति । यथैव हि निरंशस्य धर्मिणो न एक५ देशसंभवः स्वयं समुदायप्रसङ्गात् तथा [न] तद्धर्मस्यापि संभवः, धर्मधर्मिरूपसमुदायप्राप्तेरनिवारणात् । कथमन्यथा *“ प्रयोगकाले धर्मधर्मिसमुदायः पक्षः" इत्युच्यते ' इति मन्यते ।
ननु धर्मदेकदे (धर्मः तदेकदेशः ) कथमुच्यते न केवलं तदेकदेशता अपि तु तद्धर्मता न सिध्येदिति ; सत्यम् ; नैवं वक्तव्यं परापेक्षया तूक्तम् । सत्यम् एकदेशवत् तत्र वस्तुनो धर्मोऽपि न संभवति, साधयितुं तत्रेष्टि (म् ) इति चेत्; अत्राह - नहि इत्यादि । नत्र (न) खलु १० तत्र निरंशे धर्मिणि साधयितुम् इष्टः तद्धर्मः तस्य धर्मिणो धर्मः । नहि पुरुषेच्छावशाद् भावोऽन्यथा भवति, तदेकदेशता अन्यथा अस्तु इति मन्यते । दूषणान्तरं दर्शयन्नाह - - तथा च इत्यादि । तथा तेन 'तत्र साधयितुम् इष्टः तद्धर्मः' इत्यनेन च प्रकारेण सर्वो नीलादिः अर्थः सर्वधर्मा सर्वः [३०२ ख] पीतत्वादिको धर्मो यस्य इति स तद्धर्मा स्यात् इति ।
ननु यथा शब्दे नित्यत्वं साधयितुं जनो वाञ्छति नैवं नीलादौ पीतत्वादिकम्, अतोऽयम१५ दोषः इति चेत् ; निरङ्कुशत्वात् निवारकाभावात् । कस्याः ? इत्याह- इच्छायाः 'काककोकिलकुलादिकं पीतं सत्त्वात् कनकवत्' इति साधयतो निवारकाभावात् ।
ननु पक्षबाधकं तस्याः, यत्र तु तन्नास्ति तत्र साधयितुम् इष्टः तद्धर्मः इति चेत्; अत्राह - तदनिराकृतौ तस्य साधयितुम् इष्टस्य धर्मस्य प्रत्यक्षादिनाऽनिराकृतौ अनिराकरणे 'साधयितुम् इष्टः तद्धर्मः' इत्यङ्गीक्रियमाणायां सन्देहः स्यात् 'तदनिराकृतौ' इति सम्बन्धः । एवं २० मन्यते - 'अनित्यः शब्दः सत्त्वात् घटवत्' इत्यादावपि तदिच्छाकाल एव नहि तदनिराकृतिः अवसीयते, अनवसितत्वे न लक्षणमिति । तद्सन्देहे दूषणमाह- अन्यथा अन्येन तदनिराकृतसन्देहप्रकारेण हेतुवचनानर्थक्यात् हेतोः सन्देहः स्यात् इति पदघटनात् । तथाहि -तत्र धर्मिणि साध्यविनिश्चयात् तदनिराकृतिनिश्चये न सन्देहनिवृत्तिः हेतूपन्यासाच्च प्रागेव तद्विनिश्चये किं तेनेति ?
२५
स्यान्मतम् - न साध्यविनिश्चयात् तत्सन्देहविनिवृत्तिः, विनिश्चयोऽपि त ( न ) तत्र प्रतिबद्धलिङ्गदर्शनादिति; तन्न सारम्; यत एवं वै परमार्थतः तद्धर्मः, इतरथा न तत्प्रतिबद्धलिङ्गस्य तत्र दर्शनम् । न च निरंशे तदुपपन्नम्, न पुनः साधयितुम् इष्ट एव तद्धर्मः । न वै सधूमः प्रदेशः स्या (सा) ग्निमनिच्छन्तं प्रत्य [न्य ] था भवतीछन्नं (ति, इच्छन्तं ) प्रति साग्निर्भवति इि न्यायोऽस्ति । न च निरंशं नाम [ ३०३क] किंवा न ( किंचन' इति ) निरूपितं निरूपयिष्यते चात्रैव ।
(१) षष्ठी । ( २ ) " तत्र हेतुलक्षणे निश्चेतव्ये धर्मी अनुमेयः, अन्यत्र तु साध्यप्रतिपत्तिकाले समुदायोऽनुमेयः । व्याप्तिनिश्चयकाले तु धर्मोऽनुमेय :- न्यायबि०टी० पृ० ९७ । (३) निरंशस्य । ( ४ ) इच्छायाः । (५) साध्यनिश्चये । ( ६ ) हेतुना । (७) वस्तु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org