________________
६।२ ]
तुलक्षणम्
३७७
स्यादेतत् [न] तत्र बाधितो निश्चितो वा अपि तु सन्दिग्धः तद्धर्मः इति चेत्; अत्राहतत्र धर्मिणि उपचरितपक्षः (क्ष) व्यपदेश (शः ) सन्दिग्धं धर्ममिच्छन् कथम् असिद्धम् आशङ्कयेत । कस्य ? इत्याह- हेतोः इति, नैव आशङ्केत । कस्मिन् ? इत्याह- पक्षस्य धर्मत्वे हेतोः अङ्गीक्रियमाणे । किं भूतस्य ? इत्याह- सन्दिग्धधर्मणः, सन्दिग्धः साध्योऽनित्यत्वादिधर्मो यस्य तस्य इति । एतदुक्तं भवति - यथा सन्दिग्धेन तद्धर्मेण हेतोः व्याप्तिरिष्यते तथा सन्दिग्धसिद्ध- ५ धर्मधर्मिसमुदायः पक्ष इष्यताम् इति न युक्तमेतत् -"यदि हेतुप्रयोगात् पूर्वं समुदायसिद्धिः किं हेतुना ? तदसिद्धौ हेतोः तद्धर्मता[[]सिद्धिः" इति ।
1
किंभूतामसिद्धिं ‘कथम् असिद्धिं कथमाशङ्केत ? इत्यत्राह - यतो यस्मात् तदसिद्धिशङ्कनादू अयं कीर्तिः उपचारम् आश्रयेत "पक्षो धर्मा (र्मी अवयवे समुदायोपवाद् (चारात् ) " [ हेतुबि० पृ० ५२] इत्यनेन इति । यत इति वा आक्षेपे नैव तमाश्रयेत | को हि १० अनुन्मत्तः सन्दिग्धेन धर्मेण हेतोर्व्याप्तिमिच्छति न पुनः समुदायमिति ।
ननु मया यथा सन्दिग्धेन समुदायो नेष्यते धर्मेण तथा व्याप्तिरपि हेतोर्नेध्यते, किन्तु असन्दिग्धेन इति चेत्; अत्राह - यदि इत्यादि । ननु एतद् आशय 'अन्यथा हेतुवचनानर्थक्यात्' इत्यनेन परिहृतं किमर्थं पुनः आशङ्कयते इति चेत् ? अधिकदूषणप्रतिपादनार्थम् इति । आदौ यो यदि इति पराभिप्रायस्य, 'पुनः' इति पक्षान्तरस्य द्योतकः । उपचरितस्य पक्षस्य । १५ कस्य ? धर्मिणः न समुदायस्य असन्दिग्धेन निश्चितेन, 'धर्मेण' इत्यनुवर्त्तते व्याप्तो हेतुः 'इष्यते' इत्यध्याहारः । अत्र दूषणम् - [ ३०३ख ] शब्दस्य नित्यत्वे [अ] कृतकत्वे साध्ये कृतकत्वादिः आदिशब्देन उत्पत्त्यादिपरिग्रहः हेतुः स्यात्, विरुद्धो न स्यादिति मन्यते । न केवलम् *“दर्शनस्य परार्थत्वात्" [जैमिनिसू० १।१।१८] इत्यादिरेव इति अपि शब्दार्थः । किंभूतः ? व्याप्तः । केन ? इत्याह-सत्त्वप्रमेयत्वादिना न तद्धर्मिण (तद्धर्मेण ) पक्षधर्मिधर्मिण ( धर्मेण ) । २० न हि सत्त्वादिकमन्तरेण कृतकत्वादिरस्ति इति तेन व्याप्त उच्यते । अथ य एव साधयितुमिष्यते तेनैव व्याप्तो हेतुः नान्येन, सोऽसन्दिग्धो न भवति; हेतुवचनानर्थक्यप्रसङ्गात् इत्युक्तम् ।
स्यान्मतम् - दृष्टान्ते सोऽसन्दिग्धः न पक्षे, तत्र तु साधयितुमिष्टत्वात्, सेत्स्यति इि वा तस्य इत्युच्यते इति; तन्न सारम् ; यतो हेतोः पुनः समुदाय (ये) सिद्धे स तस्य भविष्यति २५ इति प्रागपि तस्यैवोच्यताम् न धर्मिमात्रस्य । यथा कश्चित् कञ्चित् पचन्तमुपलभ्य अन्यं पृच्छति 'कस्य अयं पक्षा (पक्ता)' इति ? स पृष्ट आह - ओदनस्य इति । न तदा ओदन प्रयत्नवैफल्यप्रसङ्गात् । अस्ति च तथाव्यपदेशः । ततो मन्यामहे - यस्मिन् ओदने जाते 'अस्य' इति
(१) साध्यधर्मेण । (२) तुलना - " पक्षधर्म इत्यत्र हेतुलक्षणेऽपि क्रियमाणे यदि समुदायः पक्षो गृह्यते योऽनुमानविषयः तदा सर्वो हेतुरसिद्धः सिद्धौ वा अनुमानवैयर्थ्यमित्याह पक्षो धर्मीति । " - हेतुबि० टी० पृ० १७ । (३) कथमसिद्धिम्' इति द्विर्लिखितम् । (४) धर्म कीर्तिः । (५) दर्शनस्य उच्चारणस्य परार्थ - त्वात् नित्यः शब्दः । न ह्यनित्यस्य पुनरुच्चारणं घटते इति । (६) साधयितुमिष्टः (७) साध्यः । ( ८ ) किन्तु अपक्कतन्दुलस्य पक्ता ।
४८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org