________________
सिद्धिविनिश्चयटीकायाम्
व्यपदेशभाक् स भविष्यति तेन पूर्वं व्यपदिश्यत इति धर्मिणि पक्षोपचाराऽनर्थक्यम् ।
'
तदुपचारमभ्युपगम्य दूषणं दर्शयन्नाह - न च इत्यादि । न च नैव समुदायवृत्तिः अयुक्ता समुदाये वर्त्तनं नाऽयुक्तम् । कस्य ? समुदायशब्दस्य धर्मधर्मिसमूहवाचिपक्षशब्दस्य । किंभूतस्य ? स्वयम् आत्मना एकस्मिन् देशे समुदायैकभागे धर्मिणि उपचारेण वृत्तिः वर्त्तनं ५ यस्य तस्य तद्वृत्तेः। पुनरपि किंभूतस्य ? इत्याह- पुनः पश्चात् सर्वनाम्ना 'तदंशेन' [ ३०४क] इत्यत्र तच्छब्देन परामृश्य । यतो यस्मात् तद्वृत्तेः अयुक्तत्वात् तदंशः तद्धर्मो न तदेकदेशः, कुतः पक्षशब्देन समुदायस्यावचनात् धर्मिण एव वचनात् इत्येवं सूक्तं नैव स्यात् इति । एवं मन्यते -समुदायशब्दस्य उपचारात् तदेकदेशवृत्तस्यापि यदा समुदायवृत्तिर्न विरुध् तदा तस्यैव तच्छब्देन परामर्श: - 'तदंशः तदेकदेश:' इति न विरुध्यते इति । अत्र दृष्टान्तमाह - १० ग्राम [स्थे] त्यादि । ग्रामस्य तदेकदेशस्य न सर्वस्य, अन्यथा 'तदेकदेशस्थितोऽहम् अद्राक्षम् ' इत्यस्यानुपपत्तिः । अनेन ग्रामशब्दस्य उपचारेण तदेकदेशे वृत्तिम् आह । अदाहम् ( अहम् ) अद्राक्षम् । क स्थितः ? इत्यत्राह - तदेकदेशस्थितः । तच्छब्देन अत्रं मुख्यस्य समुदायरूपस्य ग्रामस्य परामर्शः न तदनेकदेशस्य, पाटकान्तरव्यवस्थितस्य एवं प्रयोगात् तस्य एकदेशे तिष्ठति इति तत्स्थः । यथा इति दृष्टान्तार्थः ।
३७८
१५
उक्तमर्थं निगमयन्नाह–तदेतद् इत्यादि । यत एवं तत् तस्मात् एतत् परेण क्रियमाणम् । किम् ? इत्याह-मुख्यशब्दार्थलङ्घनम् मुख्यश्चासौ शब्दार्थश्च । तथाहि - अंशशब्दस्य मुख्यो लोको (केs)र्थः भागः, पक्षशब्दस्य धर्मधर्मिसमुदायः तस्य अतिलङ्घनं अतिक्रमणम् । तत् किं करोति ? इत्याह-गङ्गास्नानभयात् यः कर्कटीभ (त) क्षणन्यायः तम् अनुसरति । यात् कर्कटीतक्षणे वधबन्धादिको दोषोऽस्ति न तल्लङ्घने तत्कथमुच्यते - तन्न्याय२० मनुसरति इति चेत् ? अत्राह तत्रैव इत्यादि । तत्र उल्लङ्घने दोषात् न तल्लङ्घन इति एवकारार्थः । निरूपितम् । ततः स्थितम् - जिज्ञासित इत्यादि, न पुनः पक्षो धर्मी इत्यादि ।
३०
3
1
२५
"
एवं ‘पक्षधर्मः तदंशेन' [३०४ख] इत्येतद् द्वयं व्याख्याय ' व्याप्तः' इत्येतद् व्याचष्ठेव्याप्तिः इत्यादिना । इदमत्र तात्पर्यम् - व्याप्तियोगाद् व्याप्त उच्यते । सौ च व्याप्यव्यापकोभयाश्रितेति व्याप्तिः व्यापकस्य सम्बन्धिनी यत्र असौ व्याप्यो धर्मो धर्मिणि वर्त्तते तत्र, न पुनः धर्म एवं तत्रं अन्यधर्माऽभावात् भाव एव व्याप्यस्य 'व्याप्तिः' इत्यनुवर्त्तते, वा शब्दः समुच्चये यत्रैव धर्मिणि व्यापको धर्मो विद्यते तत्रैव नान्यत्र भावः । किमेवं सति जातम् ? इत्यत्राह–तत्र तस्यां व्याप्तौ अङ्गीक्रियमाणायाम् अन्यथा साध्याभावप्रकारेण हेतोः अनुपपत्तिरेव नान्यद्रूपम् ‘उक्तम्’ इत्यध्याहारः । अनेन 'पक्षधर्मः तदंशेन व्याप्तः हेतुतामेति, अन्यथानुपपन्नोऽयं चेत् तर्केण लक्ष्यते' इति समर्थितम् ।
तदनभ्युपगमे दोषं दर्शयन्नाह - न चेद् इत्यादि । अन्यथानुपपत्तिर्यदि न किं साध्यम् (१) 'यथा ग्रामस्य तदेकदेशस्थितोऽहमद्राक्षम्' इत्यत्र । (२) धर्मकीर्तिना । (३) अभिधेयः । (४) गङ्गास्नानभयात् । (५) व्याप्तिः । (६) धर्मो वर्तते । (७) धर्मे । (८) सद्भाव एव न तु कदाचिदप्यभावः ।
Jain Education International
[ ६ हेतुलक्षणसिद्धि:
For Personal & Private Use Only
www.jainelibrary.org