________________
६।२ ]
हेतुलक्षणम्
३७९
कस्य [ व्याप्यं ] साधनं व्यापकं चित् (चेति ) । कस्यचित् साध्याभिमता (तस्या) भावेऽपि अन्यस्य भावादिति मन्यते [इति ] पृष्टमिव आत्मानं मन्यमानः परः प्राह - कारणं पावकादिकं कार्यस्य धूमादेः स्वभावो वृक्षत्वादिः भावस्य शिशपात्वादेः 'व्यापकम्' इत्यनुवर्त्तते । चेत् शब्दः पराभिप्रायसूचकः । तत्र उत्तरं दर्शयन्नाह - क्षणिकस्य इत्यादि । यदि कारणं कार्य स्वभावो भावस्य नियमेन व्यापक इष्यते तर्हि तदभावे अवश्यं तन्न भवति इति अन्यथानु- ५ पपत्तिरेव समर्थिता । सा च अनेकान्त एव संभवतीति 'क्षणिकस्य' इत्यनेन दर्शयति । क्षणिकस्य उत्पत्तिसमयानन्तरं निरन्वयनाशिनः कारणस्य पराभिप्रायेण इदमुक्तम्, तत्त्वतः तन्न [३०५ क] कारणम् । किंभूतस्य ? कार्यकालम् अप्राप्नुवतः कार्योत्पत्तेः प्रागेव नस्तस्य (नष्टस्य) कथं न कं (कथ) ञ्चिद् व्याप्तिर्नाम । कारणस्य हि व्यापकस्य व्याप्तिः, यत्र कार्य तत्र भाव वच ( वचनम् ) । न च प्रागेव नष्टस्य से लभ्यते । एवं हि कार्यमहेतुकं तदभावे १० भवत् केन वार्यते ? शेषमत्रोक्तमिति भावः ।
स्वभावहेतुं दूषयन्नाह-भावस्वभावयोश्च सत्त्वक्षणिकत्व [यो]श्च अभेदैकान्ते अङ्गीक्रियमाणे किं केन व्याप्यते व्याप्यव्यापकद्वयविरहात् । तत्र च सामान्यविशेषाभाववत् (भावात् ) । तदभावे व्याहतमेतत्
*"व्यापकं 'तदतन्निष्ठं व्याप्यं तन्निष्ठमेव वा ।" इति ।
यत्पुनरेतत् - नित्या (नित्यत्वव्यावृत्त्या) कल्पितेन अनित्यत्वेन असत्त्वव्यावृत्त्या कल्पितं सत्त्वं व्याप्येत इति ; तदपि तदेकान्ते दुर्लभम् ; विकल्पाभावे तत्कल्पनस्य अत्यन्त [म] संभवात् । तद्भावे वा अभिलाप्येतराकारयोः कथञ्चिद् विरुद्धयोः एकत्र संभवाद् "अ पो ह वार्तिकाय निरवशेषाय दत्तो जलाञ्जलिः । एवमर्थं चाऽभेदैकान्ते इत्युक्तम् ।
अत्राह प्रज्ञा क र गुप्तः - " कारणं न कार्यस्य स्वभावो वा भावस्य नाव्यापकः" २० प्रमाणाभावेन "तयोरभावात् । यत्तु कार्यादेः कारणादिकं प्रति हेतुत्वमुच्यते, तद् व्यवहर्तुः अभिप्रायवशात् *"प्रामाण्यं व्यवहारेण" [प्र० वा० १।६] इति वचनात् " इति ; तं प्रत्याह-व्यवहर्तुरभिप्रायवशात् व्यवहर्त्तारः शास्त्रसंकाररहिता लोका न तत्संस्कारवन्तो नैयायिकादयः तेषामन्यथाभिप्रायात्, तेषां व्यवहर्तॄणाम् परमार्थयोः हेतुफलयोः भावस्वभावयोरभावेऽपि सर्वत्र अग्नेरेव धूमः वृक्ष एव शिंशपा इत्यभिप्रायः तद्वत् सा (तद्वशात्) तादा - २५ त्म्यतदुत्पत्तिव्यवस्थायां क्रियमाणायाम् । किं कृत्वा ? असमीक्ष्य | किम् ? तत्त्वम् [३०५ख ] हेतुफलादीनां परमार्थरूपम् । अथवा तत्त्वं प्रतिभासाद्वैतं समीक्ष्यते, तत्समीक्षणे तदव्य (तद्व्य)वस्थायोगात् । तस्यां किम् ? इत्याह - स तदभिप्रायः प्रमाणान्तरं प्रत्यक्षानुमानाभ्याम् अन्यत् प्रमाणं प्रसज्येत । न तावत् प्रत्यक्षस्य (क्षे तस्य' ) अन्तर्भावः; सविकल्पकत्वात् । व्यवहारेणापि
(१) बौद्धः । ( २ ) व्यापकाभावे । ( ३ ) व्याप्यम् । (४) क्षणिकम् । (५) सद्भावः । (६) कारणाभावे । (७) अभेदैकान्ते । (८) व्याप्यसद्भावे व्याप्याभावे च भवति । (९) परं व्याप्यं व्यापकनिष्ठमेव, न कदाचिदपि व्यापकाभावे भवति । (१०) प्रमाणवार्तिके यदपोहप्रकरणं तस्मै । ( ११ ) न अव्यापकः किन्तु व्यापकः । ( १२ ) कार्यस्वभावयोः । (१३) विकल्पाभिप्रायस्य ।
Jain Education International
१५
For Personal & Private Use Only
www.jainelibrary.org