________________
३८०
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः अविकल्पं परेण प्रत्यक्षमुच्यते । तत्र तदन्तर्भावे वा प्रत्यक्षवशात् तद्व्यवस्था इति सांवृतत्वमनुपपन्नमस्य । तत्त्वसंवरेण संवृतेः विकल्पात्मकत्वात् । नाप्यनुमाने ; अन्योऽन्यसंश्रयदोषात् । तथाहि-तादात्म्य-तदुत्पत्तिव्यवस्थायाम् अनुमानम् , अतः तद्व्यवस्थितिः ।
किंच *"न अननुकृतान्वयव्यतिरेक कारणम् नाकारणं विषयः" इति वचनात् ५ अनुमानं तव्यवस्थायाः कार्यं सद् व्यवस्थापकम् ; तच्च तत्कायं तदभिप्रायात् , स च अनुमानम् , तत्रापि तदेव चोद्यं तदेव उत्तरम् , अनवस्था च । ततः सः प्रमाणान्तरमिति स्थितम् ।
ननु [सः] प्रमाणमेव न भवति तल्लक्षणाभावात् कथं तदन्तरमिति चेत् ? अत्राहअविसंवादकत्वात् तद्व्यवस्थाऽव्यभिचारित्वात् । अपि (वि)संवादकं च ज्ञानं *"प्रमाणमविसंवादिज्ञानम्" [प्र० वा० १।३] इति वचनात् परेण प्रमाणमिष्यते । असिद्धोऽयं हेतुरिति १० चेत् ; अत्राह-विसंवादकत्वे अविसंवादकत्वाभावे "तदभिप्रायस्य अभ्युपगम्यमाने तदाश्रयणं
तस्य तदभिप्रायस्व अङ्गीकरणम् अप्रेक्षाकारित्वं बौद्धस्य । कुतः ? इत्याह-प्रकृतानुपयोगात् । प्रकृतायां तव्यवस्थायाम् अनुपयोगात् । तथाहि-यद् विसंवादं (वादि) तद् व्यवहारेऽपि नाभिमतव्यवस्थोपयोगि [३०६ क] यथा मरीचिकाजलज्ञानम् , विसंवादी च तदभिप्रायः ।
यद् यव्यवस्थोपयोगि न भवति न तत् तदर्थिना उपगम्यते यथा जलार्थिना तदेव ज्ञानम् , १५ तद्व्यवस्थानुपयोगी च तदभिप्रायः । तदेवं तदभिप्रास्य अविसंवादकत्वे परस्य प्रमाणान्तरमापतति, अन्यथा तदनाश्रयणात् तन्निबन्धनव्यवहारविलोप इति स्थितम् ।
__"अयमपि न दोषः अभ्युपगमादिति चेत् ; आस्तां तावदेतत् । अन्यदुच्यते-सत्यामपि तव्यवस्थायाम् अव्यापकत्वम् । एतदेव दर्शयन्नाह-तद् एतसिन् इत्यादि । तस्मिन् परमतगते
एतस्मिन् उच्यमाने प्रतिबन्धनियमे तादात्म्यादिरूपे अङ्गीक्रियमाणे कथम् अर्वाग्भागदर्शनात् २० परभागोऽनुमीयेत । कस्य ? चन्द्रादेः इति । कथम् ? इत्याह-नानयोः अर्थात् सागावर
भाग (अर्वाग्भागपरभाग) योः कार्यकारणभावः। कुतः ? सहैव भावात्। न च नैव तादात्म्यं लक्षणभेदात् । कुतस्तर्हि तदनुमानम् ? इत्याह-अलम् अन्यथाऽनुपपत्तेः अनुमानम् । विसंवादि स्यादिति चेत् ; अत्राह-अनवद्यम् अव्यभिचारि ।
'किं पुनः' इत्यादि परमतमाशङ्कते-किं पुनः कारणम् अन्यथा परभागाभावप्रकारेण २५ उपपद्यते अर्वाग्भाग इति चेत् ? अस्योत्तरम्-नवै नैवाः (नैव भावाः) पर्यनुयोगम् अर्हन्ति
किमेवं भवन्तो भवति (भवन्तु) इति ? केवलं यथा तै बाधबोध (तेऽबाधबोधे) प्रतिभान्ति तथैव अङ्गीकर्तव्याः प्रज्ञालोचनैः । पादप्रसारिका एवं स्यादिति चेत् ; अत्राह-तादात्म्य इत्यादि । [तादात्म्ये] किं पुनः कारणं वृक्षस्वभावो शिंशपा धूमः अग्निकार्यम् इत्येवं
(१) प्रत्यक्षे। (२) विकल्पस्य (३) तत्वाच्छादनेन । (४) द्रष्टव्यम्-पृ० १८८ टि० ७ । (५) तादात्म्यतदुत्पत्तिव्यवस्थायाः । (६) विकल्पः । (७) विकल्पः। (८) प्रमाणलक्षणाभावात् । (९) प्रमाणान्तरम् । (१०) बौद्धेन । (11) व्यवहभिप्रायस्य । (१२) बौद्धस्य । (१३) विज्ञानवादी प्राह । (१४) सहभाविनोरपारतन्त्र्यात् कार्यकारणभावाभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org